________________
विधिकाटिप्पणम् । वच्छेदकस्यानुगतस्याभावादित्यर्थः । अननुगमेति (८५-१०)। उपलक्ष्यतावच्छेदक यदि सुखत्वादि तदा दुःखाभावेऽपि नास्ति । तथाच दुःखाभावत्वमपि सुखे नास्तोत्यननुगम इत्यर्थः । दूषणान्तरमाह-न चेति (८५-११) । यस्यार्थस्य ज्ञानं तत्र लिशक्तिर्वक्तव्या, न चेच्छायाः ज्ञानं प्रवर्तकम् इति कृत्वा इच्छान्तर्भावेन इच्छाविषयसाधनत्वे लिशक्तिरयुक्ता । एतदेवाह-इच्छाया (८५-११) इति । इच्छा स्वरूपसती प्रवर्तिका न तु इच्छाज्ञानं प्रवर्तकमित्यर्थः । अत्राऽऽशङ्कते । न चेति (८५-१२) । तथाच इष्टत्वं लिशक्तिविषयप्रविष्टमपि न येन इच्छा विशेषणं उपलक्षणं वेति विकल्पावकाशः स्यात् किन्तु स्वर्गसाधनत्वादिकमेव लिवाच्यतावच्छेदकं न त्विष्टसाधनत्वादिकम् । दूषयति-अनेकेति (८५-१३)। स्वर्गकामो यजेतेत्यत्र इ(ई)तप्रत्ययस्य स्वर्गसाधनत्वं लिङ्प्रत्ययवाच्यतावच्छेदकं, चित्रया यजेत पशुकाम इत्यत्र पशुसाधनत्वं लिप्रत्ययवाच्यतावच्छेदकं, पुढेष्टया यजेत इत्यत्र पुत्रसाधनत्वं लिप्रत्ययवाच्यतावच्छेदकमिति अनेकार्थत्वं स्यात् । कुतः ? शकयतावच्छेदकनानात्वात् । तन्मात्रज्ञानस्येति (८५-१३) साधनत्वज्ञानमात्रस्येति । सिद्धान्तेति (८५-१३) । लिप्रत्ययवाच्यम् इष्टसाधनत्वमिति नैयायिकसिद्धान्तव्याकोपो भवति यदि साधनतामात्रं लिप्रत्ययवाध्यमुच्येत । मैवमिति (८५-१५) नैयायिकस्योक्तिः । साधनतेति (८५-१५)। साधनतामात्रमेव लिङ्प्रत्ययवाच्यम् ।
ननु इष्टसाधनत्वस्य लिङ्प्रत्ययावाच्यत्वे प्रवर्तकज्ञानालाभेन लकारान्तरज्ञानात् यथा प्रवृत्तिर्नास्ति तथाऽत्रापि प्रवृत्तिर्न स्यादिति लकारान्तरसाम्यापत्तिरित्यर्थः । समाधत्ते विधीति (८५-१५)। अनुकूलप्रयत्ने सर्वेषामाख्यातानां शक्तिरितिकृत्वा कृतिमात्रोपस्थापकत्वेन साधारण्येऽपि साधनत्वमात्रोपस्थापकत्वेनासाधारण्यम् । साधनतेति (८५-१७)। विधिप्रत्ययेन साधनता उपस्थाप्यते । न च साधनत्वज्ञानमात्रात् प्रवृत्तिरित्यत आह-स्वर्गेति (८५-१७) । तथा च स्वर्गादिपद समभिव्याहारात् स्वर्गसाधनत्वं लभ्यते यागस्य तस्माच्च प्रवृत्तिर्भविष्यतीत्यर्थः । इष्टसाधनतेति (८५-१८) । न हीष्टसाधनत्वज्ञानमात्रात् पुरुषः प्रवर्त्तते किन्तु इष्टविशेषस्वर्गाधज्ञाने स्वर्गार्थिनो न प्रवृत्तिरिति स्वर्गसाधनत्वं समभिव्याहारलभ्यं वक्तव्यमेव । यथा यजेत इत्यनेन इष्टसाधनत्वे लब्धे स्वर्गकाम इत्यत्र स्वर्गपदसमभिव्याहारात् इष्टरूपो यः स्वर्गस्तस्य साधनत्वं लभ्यत इति
१. नैयायिकमते इष्टसाधनत्वं विध्यर्थोऽस्ति, भवतां साधनतामात्र विध्यर्थ उच्यते इति नैयायिकेन सह विरोधः स्यात्-टि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org