________________
१६६
न्यायसिद्धान्तकोपे तथाच इष्टसाधनताज्ञानाभावे सन्ध्योपासनस्थळे प्रवृत्तिः कथं स्यादित्यरुचिः । सन्ध्योपासनादौ प्रवृत्तिं समर्थयति-वेदेति (८५-२) । तथा च सन्ध्योपासनं वेदबोधितकर्तव्यताकं लिङसमभिव्याहृतवेदवाक्योक्तत्वात् । अनेनानुमानेन सन्ध्योपासनस्य कर्तव्यतामनुमाय प्रवृत्तिर्भविष्यति ।।
ननु नियता प्रवृत्तिः कथं भविष्यतोत्यत माह-अकुर्वन्निति (८५-३)। वेदविहिताकरणं प्रत्यवायसाधनमिति वाक्यबलात् सन्ध्योपासनस्य प्रत्यवायहेतुत्वमवगतं ततश्चानुपासनाभावरूपोपासनस्य प्रत्यवायाभावसाधकत्वमिति प्रत्यवायाभावमुद्दिश्य नियतं सन्ध्यावन्दनादौ प्रवृत्तेरविरोधात् । तद्वयतिरेकस्येति (८५-४) । अनुपासनाभावरूपोपासनस्य काम्यत्वम् इच्छाविषयत्वम् । अवधार्य तदुपाये (८५-५) इति प्रत्यवायनिवर्तकोपासनोपाये प्रवत्तते । न तूपासने प्रवर्तते । अयोग्यत्वादिति (८५-५) । इष्टभावेनायोग्यत्वादित्यर्थः ।
मतान्तरमाह-प्रकरणादीति (८५-५)। इष्टसाधनतानन्वयेऽपि नानुपपत्तिरुपासने इष्टसाधनत्वस्य बाधात् । तथा प्रकरणोपस्थापितोपासनोपाये इष्टसाधनत्वमन्वेति । यत्र श्रुतिलिङाधर्थेन नान्वयः इष्टसाधनस्य तत्र प्रकरणोपस्थितेनापि सहान्वयः । उपासनप्रकरणात् उपासनोपायस्तु प्रकरणोपस्थापितो भवत्येव । कश्चिदि(८५-६)त्यनेनास्वरसः । यथोपासनस्य इष्टाभावादिष्टसाधनत्वं नान्वेति । तथोपासनोपायेऽपोष्टसाधनत्वं नान्वेति । न चोपासनोपायस्य प्रत्यवायानुत्पादकत्वेन उपासनमेवेष्टमिति वाच्यम् । उपासनस्य फलाभावेन उपासनस्य वेदविहितत्वं कथं स्यादित्यनुपासनस्य प्रत्यवायहेतुत्वमपि नास्तीति नाऽयं पन्थाः ।
__ शङ्कते-नन्विति (८५ ७)। इष्टसाधनताज्ञानस्य प्रवर्तकत्वे ज्ञाने. इच्छाऽपि विशेषणमिति इच्छाज्ञानस्यापि प्रवर्तकत्वं स्यादित्यर्थः । अत्र शकते इच्छेति(८५-७) । तथाच अत्र एतादृशे ज्ञाने इच्छा विषयतया न विशेषणमिति न इच्छाज्ञानं प्रवर्तकमित्यभिप्रायः । न हीच्छाविषयताया अवच्छेदको यः प्रकारः स्वर्गत्वादिस्तद्वान् यः स्वर्गः तत्प्रतियोगिका या कार्यता तन्निरूपितं कारणं याग इति ज्ञाने इच्छा विशेषणमिति सम्भवति इति न हि, किन्तु स्वरूपसत्येव इच्छा विवक्षिता । दषयति अत्रापीति (८५-९)। इच्छाविषयतावच्छेदकप्रकारतावत्प्रतियोगिकसाधनमिति ज्ञानेऽपि इच्छा विशेषणं वा उपलक्षणं वा । तदानस्येति (८५-९) । इच्छाज्ञानस्यापि उपलक्षणत्वे दूषणमाह-द्वितीये स्विति (८५-१०)। उपलक्ष्यता
१. Text has तद्व्यतिरेकरूपस्य । २. Ms. "इच्छाविषयरूपेष्टवत्" इत्यधिक निरर्थकम् । ३. T. has तद्भानस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org