________________
विधिवादटिप्पनम् ।
१६५
एतदेव दृष्टान्तद्वारेण विवृणोति - सर्पेति (८४ - २० ) । सर्पोंपसर्पणे दुःखहेतुत्वज्ञानजन्ये च्छाविषयत्वं वर्त्तते इतिकृत्वा दुःखाभावहेतुत्वज्ञानजन्येच्छाविषयत्वात् सर्पोपसर्पणस्यापि गौणप्रयोजनत्वं वर्त्तते । अयमाशयः । यथा सर्पादीनां दुःखहेतुत्वात् सर्पनाशस्य दुःखाभावहेतुत्वात् गोणप्रयोजनत्वमेवं सन्ध्यानुपासनस्यापि प्रत्यवायद्वारा दुःखसाधनत्वात् सन्ध्योपासनस्य दुःखाभावहेतुत्वेन गौणप्रयोजनत्वम् ।
उपसंहरति एवमिति ( ८४ - २१) | सन्ध्योपासनस्य दुःखाभावरूपे प्रयोजने व्यवस्थिते । तद्भावनाया ( ८४ - २२) इति सन्ध्योपासनभावनायाः सन्ध्योपासनानुकूलकृतेः । इष्टेति ( ८४ - २२) । सन्ध्योपासनानुकूलकृतेः इष्टसाधनत्वेनान्वयः । अयमाशयः - अहरहः सन्ध्यामुपासीत इत्यत्र धातुना सन्ध्योपासनमुपस्थापितम् । इ (ई) तप्रत्ययेन आख्यातत्वेन रूपेण कृतिरुपस्थापिता लित्वेन रूपेण इष्टसाधनत्वमुपस्थापितम् । तथाच सन्ध्योपासनानुकूला कृतिरिष्टसाधनमित्येकपदोपस्थाप्ययोः कृतीष्टसाधनत्वयोरन्वयः सुन्दलोपाध्यायमतेन ।
ननु यथा न कल भक्षयेदित्यत्र बलवदनिष्टाननुबन्धोष्ट साधनत्वं लिडर्थः तत्र यथा बलवदनिष्टानुबन्धित्व विशेषणस्यान्वयो नास्ति किंतु इष्टसाधनत्वमात्रेणैवान्वयः तथा अहरहः सन्ध्यामुपासीतेत्यत्र लिङ्प्रत्ययार्थस्य इष्टसाधनत्वस्यानन्वयेऽपि बलवदनिष्टाननुबन्धित्वस्यैवोपासनानुकूलकृतावन्वयो भविष्यति, वेदबोधितलिड्समानत्वेन कर्त्तव्यतामनुमाय प्रवृत्तिर्भविष्यतीत्यस्वर सादाह - यद्वेति ( ८४ - २२) । इष्टाभावादिति ( ८४ - २३ ) | सन्ध्योपासनस्य इष्टं नास्तोति कृत्वा इष्टसाधनत्वं सन्ध्योपासने नान्वेति । ननु सन्ध्योपासनस्थळे लिङ्प्रत्ययस्यार्थ इष्टसाधनत्वं यदि नान्वेति तर्हि किमर्थम् इष्टसाधनत्वं लिङथे इत्यत आह- लिङादेरिति ( ८४ - २४) तथाच स्वर्गकामो यजेत इत्यत्र यजिसमभिव्याहृतलिङ्प्रत्ययस्य इष्टसाधनत्वव्यतिरेकेण नान्यत्र शक्तिरिति पूर्वोक्तयुक्ति बलादिष्टसाधनत्वमेव लिङर्थः । तस्य च सन्ध्योपासनस्थलेऽभावेऽपि न लिङ्प्रत्ययार्थस्य व्याहृतिरित्यर्थः ।
एवं सत्याशङ्कते नन्वेवमिति ( ८५- १) । एवमिति (८५ - १ ) | सन्ध्यामुपासीतेत्यत्र लिङर्थः इष्टसाधनत्वं नान्वेति सन्ध्योपासनस्थळे तत्यर्थः । प्रवृत्तिरिति (८५- १) । प्रवर्त्तकेष्टसाधनताज्ञानाभावात् कथं सन्ध्योपासनादौ प्रवृत्तिर्भविष्यतीत्यर्थः - समाधत्ते - आपातत (८५ - २ ) इति । तथाच इष्टसाधनताज्ञानाभावेऽपि प्रवृत्तिर्भविष्यति सन्ध्योपासनस्थळे । आपातत इत्येननारुचिः सूचिता ।
१. See introduction |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org