________________
न्यायसिद्धान्तदीपे (८४-११) । दुःखहेत्वभावः स्वरूपत एव काम्यते । न तु किश्चित्प्रयोजनामन्तरमुद्दिश्य काम्यते येन गौणत्वं दुःखहेत्वभावस्य स्यात् । एतदेव दृष्टान्तेन विवृणोति-सपैति (८४-१२)। अहिकण्टकनाशो यः स दुःखहेत्वभावत्वेनैव काम्यते, न तु किञ्चित् प्रयोजनान्तरमुद्दिश्य काम्यते । अहिकण्टकनाशः स्वतो दुःखहेत्वभाक्त्वेन प्रयोजनं मुख्यं तद्वत् सन्ध्योपासनमपि दुःखहेत्वभावत्वेनैव स्वतः प्रयोजनमित्यर्थः । अत्राशङ्कते-न चैवमिति (८४-१३)। तथा च सति यदि दुःखहेत्वभावः स्वतः प्रयोजनं तदा सुखं दुःखाभावश्चेति प्राचां मुख्यप्रयोजनद्वयस्य विभागो न स्यादित्यर्थः । समाधत्ते दुःखाभाव (८४-१३) इति । तथाच एकविंशतिप्रमेदाद भिन्नं यदुःखमनुपासनं तदभावः सन्ध्योपासनं स्वतः प्रयोजनमेव ।
ननु तर्हि एकविंशतिदुःखनाशो यः स स्वतः मुख्य प्रयोजनं न स्यात् । कुतः सुखं दुःखाभाव इत्यत्र विभागे दुःस्वाभावपदेन एकविंशतिप्रभेदभिन्नदुःखस्याभावो विवक्षित इति एकविंशतिदुःखाभावस्य मुख्यप्रयोजनत्वं न स्यादित्यरुचेराहयद्वेति (८४-१५)। इदमिति (८४-१५) । सन्ध्योपासनं गौणं प्रयोजनम् । अत्राशङ्कते-नन्विति (८४-१५)। गौणत्वनिरुक्तिमाह --किञ्चिदिति (८४-१५) यथा हि तण्डुलक्रयणादिकम् ओदनरूपप्रयोजनजनकं भवतीति कृत्वा गौणं प्रयोजनं सन्ध्योपासनेन तु न किञ्चित् प्रयोजनान्तरं जन्यते इति कथं गौणत्वमित्यर्थः । समाधत्ते साधनतेति (८४-१६)। न प्रयोजनान्तरजनकत्वं किन्तु साधनताज्ञानेन जन्या या इच्छा तद्विषयत्वं, वर्तते च तण्डुलक्रयणादौ ओदनसाधनताज्ञानजन्येच्छाविषयत्वम् । नास्ति च गौणप्रयोजनत्वं सुखदुःखाभावयोः, न हि सुखं वा दुःखाभावो वा किञ्चित् साधनज्ञानजन्येच्छाविषयः । न हि सुखेन वा दुःखाभावेन कश्चिदिच्छाविषयः प्रयोजनं जन्यते । एतदिति (८४-१७)। साधनताज्ञानजन्येच्छाविषयत्वं सन्ध्योपासनस्थले असिद्धम् । न हि अनेन सन्ध्योपासनेन किञ्चित् प्रयोजनं जन्यते येन साधनताज्ञानजन्येच्छाविषयत्वं गौणत्वं भविष्यतीत्यर्थः । अनुपपत्तिपूर्वकं समाधत्ते-यधपीति (८४-१७)। तथाऽपीति (८४-१८)। तथा चानुपासनस्य प्रत्यवायसाधनत्वात् प्रत्यवायप्रतियोगिकसाधनताज्ञानजन्येच्छाविषयत्वं वर्तते । तदभावत्वेनेति (८४-१९)। प्रत्यवायसाधनायाभावत्वेन सन्ध्योपासनस्य प्रयोजनत्वं सम्भवत्येव । तथाच एवंसति सन्ध्योपासनस्थले प्रतियोग्यंशे साधनताज्ञानजन्येच्छाविषयत्वमादाय तदभावत्वेन प्रत्यवायाभावनिरूपितसाधनताज्ञानजन्येच्छाविषयत्वेन गौणत्वं सन्ध्योपासनस्य तिष्ठत्येव ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org