________________
विधिवादटिप्पनम् । भावात् सन्ध्योपासनस्य नित्यताहानिः स्यात् । न द्वितीयः । अनुपासनजन्यप्रत्यवायस्याङ्गीकारेऽन्योन्याश्रयादित्यप्रे वक्ष्यते । ननु पण्डापूर्व पण्डापूर्वत्वेनैव प्रयोजनमित्यत आह-तथाभूत (८४-२) इति । पण्डापूर्वे प्रमाणं नास्ति । अन्यथेति (८४-३ ) । यदि पण्डापूर्व प्रयोजनं न स्यात् तदा सन्ध्योपासनं विहितमेव न स्यादित्यन्यथानुपपत्तिरित्यर्थः । समाधत्ते अन्यथेति. (८४-३)। उपसंहरति । तस्मादिति (८४-४) पूर्वोक्तयुक्तेर्नित्यस्थले इति कोऽर्थः ? सन्ध्योपासनस्थले । काम्यस्येति (८४-४) । गौणमुख्यप्रयोजनाभावान तत्र सन्ध्योपासनस्थले इष्टसाधनत्वमिति कृत्वा इष्टसाधनत्वं विध्यर्थो न । एतदेवाहइष्टसाधनतेति (८४-४) ।
समाधत्ते नैयायिकः । यत् तावदिति । मुख्य (८४-५) इति । सन्ध्योपासनस्थले यदिष्टं तस्य मुख्यप्रयोजन एवान्तर्भावात् । किं तन्मुख्यत्वं गौणत्वं चेत्यत आह- समानाधिकरणेति (८४-६)। समानाधिकरणा या इछा एकात्मनिष्ठा या इच्छा तया अजन्या या इच्छा तद्विषयत्वं सुखेऽपि वर्तते दुःखाभावेऽपि वर्तते । न हि सुखेच्छा दुःखाभावेच्छा वा कयाचिदन्येच्छया जन्यते इति समानाधिकरणेच्छया अजन्या भवति सुखेच्छा दुःखाभावेच्छा । इदं च गौणप्रयोजने पाकादौ तण्डुलक्रयणे वा नास्ति । कुतः ! तं देवदत्तकृततण्डुलकयणस्य देवदत्तस्य या पाकेच्छा तज्जन्या या इच्छा तण्डुलक्रयणेच्छा तद्विषयत्वं तण्डुलक्रयणे वर्तते इति कृत्वा गौणम् एव पाकादावपि । लक्षणान्तरमप्याह-प्रयोजनेति(८४-६)। प्रयोजनस्याजनक यत् प्रयोजन तत्त्वस्य मुख्यप्रयोजनत्वस्य सुखे वा दुःखा भावे वा वर्तमानत्वात् । गौणे च प्रयोजने तण्डुलक्रयणादौ प्रयोजनाजनकत्वं नास्ति किं त्वोदनरूपप्रयोजनजनकत्वाद् इति न तत्र गौणप्रयोजने इदं लक्षणद्वयमतिप्रसक्तम् ।
ननु तर्हि निरुपधीच्छाविषयत्वं मुख्यत्वमिति प्राचां मुख्यप्रयोजनत्वनिरुक्तिर्न स्याद् इत्यत आह-एतदेवेति (८४-८)। पूर्वोक्तं समानाधिकरणेच्छाजन्यत्वम् अथवा प्रयोजनाजनकत्वं वा । तदेव निरुपधीच्छाविषयत्वम् । एतदिति (८४-८)। एतन्मुख्यप्रयोजनत्वस्य लक्षणद्वयं सन्ध्योपासनेऽसिद्धमिति न च तदमुख्यं प्रयोजनम् । विवृणोति-तथा हीति (८४-९)। काम्यत्वमिति (८४-९) इच्छाविषयत्वम् स्वतः प्रयोजनत्वमुपपादयति । दुःखेति (८४-११)। किश्चिदिति (८४-११) । किञ्चित्प्रयोजनानुकूलतया दुःखहेत्वभावो न काम्यते । कित्किति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org