________________
१६२
न्यायसिद्धान्तदीपे पापं तं प्रति सन्ध्योपासनस्य सफलता यो निशि पापाचरणं न करोति तं प्रति सन्ध्योपासनस्य सफलता न स्यादित्याह-नित्यतेति (८३-१९) । यो निशि पापाचरणं न करोति तं प्रति सन्ध्योपासनमावश्यकं न स्यादिति नित्यस्वविरोधः । दूषणान्तरमाह अहरहरिति (८३-१९) । तथा च स्नानादिकं तु दिवसकृत्यमेव तत्र निशिकृतपापस्य प्रसक्तिरेव नास्ति । अहरहःस्नानस्य सफलता न स्यात् । तदभावादिति (८३-२०) इष्टाभावादिति । मभ्ये शङ्कते न चेति (८३-२०) । तदभाव (८३-२०) इति । अनुपासनजन्यप्रत्यवायपरिहार एव सन्ध्योपासनफलम् । दूषयति -उपासनस्येति (८३-२१) अनुपासनाभावः किं उपासनरूपो वा किमनुपासनजन्यप्रत्यवायाभावः । अन्त्येअन्योन्याश्रयादिति वक्ष्यति । आये त्वाह-फलत्व (८३-२१) इति । एकस्यैव स्वं प्रति फलत्वं साधनत्वं च विरुद्धम् । दूषणान्तरमाह-न चेति (८३-२१)। तथाच उपासनं न स्वतः प्रयोजनम् । न वा गौणं प्रयोजनं सम्भवति । तदेव विवृणोति-सुख (८३-२२) इति । सुखं वा दुःखाभावो वा स्वतः प्रयोजनं, न चोपासनं सुखं वा दुःखाभावरूपं वा तत्त्वादिति (८३-२३)। सुखदुःखाभावयोः स्वतः इच्छाविषयत्वात् । अन्येषाम् इच्छाविषयत्वं सुखसाधनत्वेन, नाप्रि गौणप्रयोजनमित्याह-नेतर (८३-२३) इति । सुखसाधनं वा दुःखाभावसाधनं वा गौणं प्रयोजनम्-तत्त्वादिति (८३-२३) । गोणप्रयोजनत्वादिति । प्रवर्तमानस्य पुरुषस्य मुख्य प्रयोजनं सुख दुःखाभावश्च । तत्साधनं च गौण प्रयोजनम् । गौणप्रयोजनं नास्तीत्याह-नचेति (८३-२३)। सन्ध्योपासनेन सुखं वा. दुःखाभावरूपं प्रयोजनं न जन्यते । ... नैयायिको गुरुमतं दूषयति यत् स्विति (८३-२४)। प्रत्यवायविरोधि व्यर्थमपूर्व सन्ध्योपासनेन जन्यते । व्यापूर्वस्य कथं प्रयोजनत्वम् इत्यत आहतच्चेति (८४-१) । व्यापूर्वं प्रत्यवायविरोधि भवति । प्रत्यवायो दुःखहेतुभवति, तद्विरोधित्वात् दुःखविरोधित्वाच्च व्यर्थापूर्व तत्काम्यम् इच्छाविषयं भवति । प्रत्यवायविरोधित्वेन व्यापूर्वस्य काम्यतेत्याह-न विति-(८४-१) । व्यर्थापूर्वस्म अपूर्वत्वेन काम्यता नास्ति किन्तु प्रत्यवायविरोधित्वेन काम्यता । दूषयतिपूर्वोक्तेनेति (८४-२) । व्यापूर्वस्य यदि अपूर्वत्वेन काम्यता तदा अपूर्वस्वहानिः स्यादिति हेतोय॑र्थापूर्वस्य प्रत्यवायविरोधित्वेनैव काम्यत्वम् । अयमाशयःतद् यदपूर्व तत्प्रत्यवायविरोधि, कः प्रत्यवायो निशि कृतः प्रत्यवायो वाऽनुपासनजन्यः प्रत्यवायों वा यस्यापूर्व विरोधि । नाघः निशिकृतप्रत्यवायस्य सर्वत्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org