________________
विधिवादटिप्पनम् ।
१६१
नापीति (८३ - ११) । निवृत्तिनियोगो निवृत्त्यपूर्वम् इत्येकम् अथवा यागविषयक कार्ये प्रवृत्यपूर्वम् इति द्वितीयं तथा च कलञ्जभक्षणाभावविषयकं कार्यमिति निवृत्त्यपूर्वं तथाच नत्रा कलञ्जभक्षणादौ निवृत्त्यपूर्वमेव बोध्यते । दूषयति फलाभावेनेति (८३ - १२) | निवृत्त्यपूर्वं हि न स्वतः फलरूपं सुखदुःखाभावानात्मकत्वात् । नापि सुखसाधनं वा दुःखाभावसाधनं वा । पेण्डत्वादेव निष्प्रयोtosपूर्वे प्रमाणाभावात् । नापीति ( ८३ - १२) । न कल भक्षयेदित्यत्र नजा कलञ्जभक्षणप्रागभाव एव साध्यत्वेन बोध्यते इति नञोऽर्थवत्त्वं दूषयति । तस्येति (८३-१३) । कलञ्जभक्षणप्रागभावस्य पूर्वावधिशून्यत्वेनाऽसाध्यत्वात् ।
अत्राशङ्कते न चेति (८३ - १३) । साध्यता हि द्विधा योगरूपा क्षेमरूपा च । अलब्धस्य लब्धिर्योगरूपा साध्यता घटादौ । यस्मिन् सति उत्तरक्षणे यस्य सत्त्वम् । यस्मिन्नसति उत्तरक्षणे यस्यासत्वम् इयं क्षेमरूपा साध्यता । तत्र प्रथमायाः साध्यताया असम्भवेऽपि द्वितीयस्याः सम्भवात् । कलञ्जभक्षणादौ कलञ्जभक्षणोत्पादनसामग्रचा भावे उत्तरक्षणे कलञ्जभक्षणप्रागभावस्य सत्त्वम् । तदभावे कल मक्षण सामग्रीसत्त्वे उत्तरक्षणे कलञ्जभक्षणप्रागभावस्यासत्त्वम् । एवं सति यस्मिन् सति यस्य उत्तरक्षणे सत्वं तदेव योगक्षेमसाधारणं साध्यत्वं न तु असतः सत्त्वं गौरवात् । एवं सति कलञ्जभक्षणप्रागभावस्य परिपालनरूपमेव साध्यत्वम् । दूषयति - प्रागभावस्येति (८३ - १४) । नञा कलञ्जभक्षणप्रागभावपरिपालनं बोचयितुं न शक्यते, कुतः ? प्रागभावस्य कार्यजनकत्वनियमेन । तत्परीति ( ८३ - १५) | प्रागभावपरिपालनस्य । तथा च प्रागभावपरिपालनं कर्तुं न शक्यते । नन्वस्त्वन्य एव निषेध इत्यत आह - तदन्यस्येति (८३१५) । चिकीर्षाजन्यकृतिसाध्यत्वातिरिक्तस्य । तत्रेति (८३ - १५ ) । न कल भक्षयेदित्यादौ चिकीर्षाजन्यकृतिसाध्यत्वस्य निषेधो नास्ति । तस्माद् न कल भक्षयेदित्यत्र बलवदनिष्टाननुबन्धित्वस्यैव निषेधः ।
इष्टसाधनस्य विध्यर्थत्वे शङ्कते । नन्विति (८३ - १७) । नित्ये सन्ध्योपासनादौ किमिष्टं यं प्रति साधनत्वं सन्ध्योपासनस्य बोधनीयम् । प्रागिति (८३-१८) । सन्ध्योपासनाप्राक् । प्रत्यवाये ( ८३ - १८ ) पापे प्रमाणं नास्तीत्यर्थः । सर्वत्रेति ( ८३ - १९) । यो निशि पापाचरणं करोति तस्यैव १. अस्वरूपत्वात् व्यर्थत्वात् ।
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org