________________
२६०
म्यायसिद्धान्तदीपे समाधत्ते बलवदिति (८३-४)। न कलज भक्षयेदित्यत्र इष्टसाधनत्वज्ञाने विद्यमानेऽपि प्रवृत्तिर्न जायते । तत्र प्राभाकरमते बलवदनिष्टानुबन्धित्वज्ञानं प्रवृत्ती प्रतिबन्धकम् । तथाच बलवदनिष्टानुबन्धित्वज्ञानस्य प्रवृत्तिप्रतिबन्धकत्वेऽपि । तदभावस्येति (८३-४)। बलवदनिष्टानुवन्धित्वज्ञानाभावस्य कारणत्वं वक्तव्यमेव । एवं सति प्रवृत्ती बलवदनिष्टानुबन्धित्वज्ञानाभावो वा कारणं किं वा बलवदनिष्टाननुबन्धीष्टसाधनत्वज्ञानं वा प्रवर्तकं तत्र क्लप्तेष्टसाधनत्वज्ञानरूपे कारणे कारणतावच्छेदकं विषयतया बलवदनिष्टाननुबन्धित्वमेव वक्तव्यम् । तदभावेति (८३५)। बलवदनिष्टानुबन्धित्वज्ञानाभावः । तथाच बलवदनिष्टानुबन्धित्वज्ञानाभावबलवदनिष्टाननुबन्धित्वज्ञानयोर्विनिगमनाभावेन उभयोः कारणत्वे प्रसक्ते यस्यैव कारणतायां लाघवं तदेव कारणं क्लृप्तेष्टसाधनत्वज्ञानरूपे कारणे विषयतया बलवदनिष्टाननुबन्धित्वमेव कारणतावच्छेदकं कल्पनीयम् । कारणान्तरकल्पनापेक्षया क्लप्तकारणतायामवच्छेदककल्पनैव लघीयसी । एवमिति (८३-७) । तथाच क्लप्तेष्टसाधनताज्ञानकारणतायां विषयतया बलवदनिष्टाननुबन्धित्वमेवावच्छेदकमित्यर्थः । तथाच बलवदनिष्टाननुबन्धीष्टसाधनत्वज्ञानस्य प्रवर्तकत्वे सिद्धे यदेव प्रवर्तकज्ञानविषयीभूतं तदेव विध्यर्थः ।
प्रकृतमुपसंहरति । तथाचेति (८३-८) । विधिप्रत्ययस्य बलवदनिष्टाननुबन्धीष्टसाधनत्वं वाच्यम् । एवं सति न कलञ्ज भक्षयेदिति लिङ्प्रत्ययेन बलवदनिष्टाननुबन्धीष्टसाधनत्वे उपस्थापिते इष्टसाधनत्वविशेषणीभूतं यद्बलवदनिष्टाननुबन्धित्वं तस्यैव निषेधो नना बोध्यते । यद्यपि पदार्थः पदार्थेन विशेष्येण सहान्वेति न तु विशेषणेन निराकासत्वात् तथापि अनन्यगत्या क्वचिद्विशेषणेनापि साकाङ्क्षत्वम् । अत एवाह-अनिच्छयाऽपीति (८३-९) विशेषणे नो यद्यप्याकाङ्क्षा नास्ति तथाच यत्र विशेष्ये बाधस्तत्र विशेषणेन सहान्वयः अत एव सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामतः सति विशेष्ये बाधे इति । केवलम् इष्टसाधनत्वविध्यर्थवादिनामेवेदम् इति न हि किन्तु कार्यतावादिनोऽपोत्याह-अन्यथेति (८३-९)। कार्यताविध्यर्थवादिना । तामेवानुपपत्तिमाह-न हीति (८३-१०)। यथा कलाभक्षणस्य तृप्तिरूपेष्टसाधनत्वात् तन्निषेधो न सम्भवति तथाच कलजभक्षणस्य चिकीर्षाजन्यकृतिसाध्यत्वादपि चिकीर्षाजन्यकृति साध्यत्वनिषेधो न सम्भवति । तस्याऽपोति (८३-१०)। कार्यताविधिवादिनोऽपि । बाधादिति (८३-११) । कलजभक्षणे चिकीर्षाजन्यकृतिसाध्यत्वं वर्तते चिकीर्षाजन्यकृतिसाध्यत्वाभावो नास्तीति बाधः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |