________________
विधिधावटिप्पनम् । निष्टाननुबन्धित्वस्य । ननु यथाकथञ्चित् उपस्थितस्य बलवदनिष्टाननुबन्धित्वस्य ना निषेधोऽस्तु इत्यत आह-तदिति । विधिप्रत्ययोपस्थितेनैव निषेधान्वयः ।
- अत्र नैयायिकः शङ्कते-न चेति (८२-२३) । तथाच परदारगमनादौ बलवदनिष्टानुबन्धित्वज्ञाने विद्यमानेऽपि शिष्टानां प्रवृत्तिर्नास्ति इतिकृत्वा बलवदनिष्टाननुबन्धित्वं ममाप्यनन्यगत्या विध्यर्थः । तेन सह नत्रा निषेधोऽस्तीत्यर्थः । दूषयति तत्प्रतीति (८२-२४)। न बलवदनिष्टाननुबन्धित्वं विध्यर्थः किन्तु इष्टसाधनत्वमात्रम् । परदारगमनादौ इष्टसाधनत्वज्ञाने प्रवर्तके विद्यमानेऽपि न प्रवृत्तिः । कुतः । बलवदनिष्टानुबन्धित्वज्ञानस्य प्रतिबन्धकस्य विद्यमानत्वादिति पूर्वमेवोकत्वात् । न कलजमित्यत्र नमो निषेधरूपत्वाभावेऽपि पर्युदासत्वं भविष्यतीत्याशङ्कते । न चेति(८२-२४)। निषेधस्य क्रियान्वयेऽपि पर्युदासस्य क्रियान्वयो नास्तीति पर्युदासेनाऽनिष्टसाधनत्वरूपोऽर्थों लभ्यत इत्यर्थः ।
अत्रोदाहरणमाह-यजतिष्विति (८३-१) । यथा यजतिषु यजामह इति शब्दः कर्त्तव्यः । नानुयाजेष्विति । अनुयाजेषु यजतिभिन्नेषु यागेषु यजामहशब्दो न कर्त्तव्य इति निषेधो न सम्भवति । कुतः वाक्यद्वयं स्यात् ? यथा यजतिषु यजामहशब्दः कर्त्तव्य अयमेको वाक्यार्थः, अनुयाजेषु यजामहशब्दो न कर्त्तव्यः इति द्वितीयो वाक्यार्थः इति वाक्यभेदादथ च यजतिषु यजामहशब्दः प्राप्त एव वर्त्तते विधायकवाक्यात् तथाच प्राप्तानुवादः स्यादित्येकवाक्यत्वरक्षणार्थमनन्यगत्या अयं नञ् पर्युदास उच्यते । तथा चानुयाजव्यतिरिक्तेष्वित्यर्थो लभ्यते । तथा चायं वाकयार्थः । यजतिषु ये यजामहशब्दं कुर्वन्तीत्यनूध अनुयाजव्यतिरिक्तेविति विधीयते तथाच सति एक वाक्यं सम्भवत्येकवाक्यत्वे हि वाक्यभेदो हि दूषणमिति । नानुयाजेष्विति (८३-१) अयं पयुदासनञ् तद्वदयं न कलज भक्षयेदित्यत्राप्ययं न पर्युदासः। तेन पर्युदासनञा इष्टसाधनत्वविरोधि बलवदनिष्टसाधनत्वं ज्ञाप्यते । एतदेवाह-तथात्राऽपीति (८३-२) । दूषयति वाक्येति (८३३)। नानुयाजेष्वित्यत्र वाक्यभेदभयात् क्रियान्वयाभावाच्च नानुयाजेष्वित्यत्र नमः पर्युदासत्वम् । गत्यन्तरेति (८३-३)। नञः पर्युदासत्वेन विना अन्या गतिर्नास्ति । तत्रेति (८३-३) नानुयाजेविति । अत्रेति (८३-४) । न कलजं भक्षयेदित्यत्र तदभावादिति । नओ निषेधरूपत्वे वाक्यभेदाभावात् क्रियान्वयित्वाच्च निषेधरूपत्वेनाप्युपपत्तेर्न पर्युदासत्वं, तस्मात् इष्टसाधनत्वविधिपक्षे कलञ्जभक्षणादौ विध्यर्थप्रतिषेषानुपपत्तेः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org