________________
१५८
न्यायसिद्धान्तदीपे अनुगतकारणतावच्छेदकग्रहनियमो नास्ति । यथा वह्नित्वावच्छिन्नकार्यतानिरूपित्तकारणताया अनुगतत्वेऽपि अनुगतकारणतावच्छेदक ग्रह नियमो नास्ति । यथा तृणे तृणत्वं पर्णे पर्णत्वम् इत्यादि । तद्वदेव इच्छात्वावच्छिन्नकार्यतानिरूपित कारणता सुखज्ञाने तत्र सुखत्वप्रकारकज्ञानत्वम् एवम् इच्छात्वावच्छिन्नकार्यतानिरूपितकारणता दुःखाभावज्ञानेऽपि तिष्ठति । तत्र च दुःखाभावत्वप्रकारकज्ञानत्वम् । एवं इच्छात्वावच्छिन्नकार्यतानिरूपित कारणता इष्टसाधनताज्ञानेऽपि तिष्ठति । तत्र इष्टसाधनताज्ञाने इष्टसाधनत्वप्रकार कज्ञानत्वं कारणतावच्छेदकं नैकमनुगतम् । अत्रानुरूपं दृष्टान्तमाह-गोमयेति (८२-१५) । यथा वृश्चिकत्वावच्छिन्नकार्यताप्रतियोगिक कारणतावच्छेदकं वृश्चिके गोमये च नैक यतो वृश्चिकादपि वृश्चिकः गोमयादपि वृश्चिकः । अत एव चक्रमर्दनशाकः वृष्टेरपि जायते बीजादपि च जायते। सत्र नैकं कारणतावच्छेद कमिति तद्वदत्रा पि' द्रष्टव्यम् । न केवलमिष्टसाधनत्ववादिमते एवेदं बाधकमपि तु कार्यवादिनोऽप्येतद् बाधकमित्याह-अन्यथेति (८२१६)। इच्छाजनकतावच्छेदकं नैकम् इदं चेन्नोच्यत इत्यर्थः । एतदेव विवृणोति । चिकीर्षेति (८२-१६) । न हि चिकीर्षाजन्यकृतिविशेषसाध्यताज्ञानत्वेन इच्छात्वावच्छिन्नं प्रति जनकतेत्यर्थः । व्यभिचारमाह-असाध्येऽपीति (८२-१७)। यत्र च कृत्यसाध्ये तक्षकचूडारत्नादौ समुद्रतरणे चिजन्यकृतिसाध्यताज्ञानं नास्ति तत्रापीच्छोत्पत्तेः । यत्र च कृतिसाध्यताज्ञानमपि नास्ति तत्रापि केवलं सुखत्वेन रूपेण सुखज्ञानात् दुःखाभावत्वेन रूपेण दुःखाभावज्ञानात् इच्छोत्पत्तेः स्फुट एव व्यभिचार इत्याह । कृतीति (८२-१८) । अप्रतीति (८२-१८)। कृतिसाध्यताज्ञानाभावेऽपीत्यर्थः ।
अत्र पूर्वपक्षी शङ्कते-हितेति (८२-२०)। इष्टसाधनत्वविध्यर्थवादिनो न कलञ्जमित्यत्र प्रतिषेधनञा कलञ्जभक्षणस्य हितोपायत्वम् इष्टसाधनत्वं न निषेध्यते । कुत इत्यत आह-बाधादिति (८२-२१) । यतः कलञ्जभक्षणस्य तृप्तिरूपेष्टसाधनत्वात् तन्निषेधो न सम्भवतीत्युकत्वात् । नापीति (८२-२१)। न कलजं भक्षयेदित्यत्र बलबदनिष्टाननुवन्धित्वं न निषिध्यते यतः इष्टसाधनताज्ञानस्य प्रवर्तकत्वेन इष्टसाधनत्वमेव विधिप्रत्ययेनोत्थाप्यम् , न च बलवदनिष्टाननुबन्धित्वज्ञानं प्रवर्तकमिति बलवदनिष्टाननुबन्धित्वमपि विधिप्रत्ययानुत्थाप्यम् । तदज्ञानस्येति (८२-२२)। बलवदनिष्टाननुबन्धित्वज्ञानस्येत्यर्थः । तस्येति (८२-२२) बलवद
१. इच्छात्वावच्छिन्नकार्यतानिरूपितकारणतायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org