________________
विधिवादटिप्पनम् ।
इष्टसाधनताभ्रमे सति प्रवर्त्तते, तदभावज्ञाने सति निवर्त्तते इत्यावश्यकत्वात् इष्टसाधनताज्ञाने सत्येव चिकीर्षतीति तदेवेष्टसाधनताज्ञानमेवोपजीव्यमतएवोपजीव्यत्वात् तदेवाह - तदिति (८२ - ७) । तस्येष्टसाधनताज्ञानस्योपजीवने । तदिति (८२ - ७) इष्टसाधनत्वज्ञानमेव प्रवर्त्तकमित्यर्थः ।
इष्टसाधनत्व विधिपक्षे शङ्कते । साधनतेति ( ८२-८) इष्टसाधनता विधिपक्षे इत्यर्थः । साधनतेति (८२ - ९) इष्टसाधनतालाभात् । अनेनेति ( ८२ - ९) । अनेनार्थवादवाक्येन तरतीत्यादिना । यजते, अयं तु न लिङ् किन्तु लट् । अनेन लटा इष्टसाधनत्वं न लभ्यते । किन्तु अर्थवादवाक्येन अनुमानेन इष्टसाधनत्वलाभः । इष्टसाधनत्वानुमानं तु यथा इदम् अर्थवादवाक्यम् इष्टसाधक विध्यैकवाक्यतापन्नम्, अर्थ वादवाक्यत्वात् । वायव्यं श्वेत इत्यर्थवादवाक्यवत् । समाधत्ते अविनेति (८२१०) । तथाच तदतिमृत्युमनेन मृत्युतरणरूपेष्टस्य यत्तच्छन्दाभ्यां सिद्धार्थवाक्येने बोधनात् । न च प्रवर्त्तकेष्टसाधनत्वबोधक विधिं विना तरतोत्यादिसिद्धार्थवाक्यात् प्रवृत्तिरिति प्रवृत्त्यर्थं यत्र यत्र अर्थवादवाक्य तत्र तत्र विधिसमभिव्याहार इति अविनाभावबलेन इष्टसाधनत्वबोधक विध्यनुमानम्, अर्थवादवाक्यस्य विधिव्याप्यत्वात् ।
अत एवाह — व्यापकबाधेनेति (८२ - १० ) । व्यापको विधिश्चेन्नास्ति तदा व्यापकविध्यभावे व्याप्यस्याऽर्थवादवाक्यस्यार्थवाद वाक्यरूपत्वमेव न स्यादिति अर्थवादवाक्यव्यापकविधिकल्पनम् । अयमर्थः । नहीष्टसाधनत्वमर्थवादवाक्याल्लब्धं नास्ति इति न हि । किन्तु प्रवृत्यर्थं व्याप्तिबलेन विधिकल्पनमित्येकः पक्षः । अथवा कथमेतस्यार्थवादवाक्यस्यार्थवादरूपत्वं यावान् अर्थवादो विधिव्याप्यः । विधिरूपव्यापकाभावे व्याप्यत्वं न स्यादिति व्यापकबाधे व्याप्यवापशङ्कानिराकरणार्थे तद्विधिकल्पनमिति द्वितीयः पक्षः । नव (८२ - ११ ) । साधनताशब्देन इष्टसाधनता लाभार्थं विधिकल्पनं नास्ति । किन्तु प्रवृत्यर्थं विधिकल्पनम् ।
अत्र प्राभाकरः शङ्कते नन्विति (८२ - १२) ज्ञाननिष्ठा या इच्छात्वावच्छिन्नकार्यता प्रतियोगिक कारणता तस्याः किमवच्छेदकमित्यन्वयः । समाधत्ते अनुगतमिति ( ८२ - १३ ) । कारणतावच्छेदकमनुगतं नास्त्येव । यतः सुखज्ञानादपि इच्छा जायते, दुःखाभावज्ञानादपि इच्छा जायते, इष्टोपायत्वज्ञानादपीच्छा जायते । तत्र ज्ञाननिष्ठमनुगतं कारणत्वं नास्तीत्यर्थः । अत्र शङ्कते प्राभाकरः । तर्हीति (८२-१३) अनुगत कारणतावच्छेदक ग्रह नियमः । अनुगतं कारणतावच्छेदकं ज्ञाननिष्ठं नास्त्येवेत्यर्थः । समाधत्ते नैयायिकः । सुख (८२ - १४ ) इति । अनुगत कारणताग्रहे १. तरतीत्यादिना इति ।
Jain Education International
For Private & Personal Use Only
१५७
www.jainelibrary.org