________________
१५६
न्यायसिद्धान्तदीपे
वर्त्तते मत्कृतिसाध्यत्वं नास्तीति व्यभिचारः । न च मत्कृतिं विना असत्त्वे सतीति विशेषणं दातव्यम् । समुद्रतरणं तु मत्कृतिं विनाऽपि दिव्यदेहानामपि सत् । एवं सति पाकादावपि अनुमानं न स्यात् यतो मत्कृतिं विनाऽन्यस्य पाकस्य सत्वात् । न च मत्कृतिं विना ममाऽसत्त्वे सतीति विशेषणं तर्हि समुद्रतरणादौ व्यभिचारः तदवस्थ एव । मत्कृर्ति विना मम समुद्रतरणमसदेव । न च समुद्रतरणं मत्कृतिं विनाऽसत् किन्तु अयोग्यत्वात् इत्यरुचेराह - न चेति (८१-२३) । इदम् इष्टसाधनतालिङ्गकं कार्यतानुमानं यागादौ तदा स्यात् यदीष्टसाधनत्वं यागादौ ज्ञायेत । न च तदिष्टसाधनत्वं लिङ्प्रत्ययस्य वाच्यं येन इष्टसाधनत्वालामः स्यात् । ननु प्रकारान्तरेण केनचिल्लिङ्गेन इष्टसाधनत्वमनुमाय कार्यतानुमानं सम्भवत्येव यागादावित्यत आह-यथाकथञ्चिदिति (८१ - २४ ) । तथा च यदी - ष्टसाधनत्वं कृतिसाध्यत्वानुमाने लिङ्गं तदा उपजीव्यत्वादिष्टसाधनत्वमेव विध्यर्थोऽस्त्वित्यर्थः । तदिति (८१ - २५) इष्टसाधनताज्ञानं तस्येति (८१ - २५) । इष्टसाधनताज्ञानस्य कृतिसाध्यत्वस्यानुमापकत्वेनोपजीव्यत्वात् । ननु कार्यताज्ञानमात्रमेव प्रवर्त्तकमस्तु किमिष्टसाधनता लिङ्गककार्यत्वानुमानेनेत्यत आह-न हीति (८१-२५) ।
इष्टसाधनत्वस्य विध्यर्थत्वे लाघवमाह - इष्टसाधनतेति (८२ - १) । तथाच मत्कृतिं विना असत्त्वे सत्येतस्य अथ च मदिष्टसाधनत्वस्य मत्कृतिसाध्यत्वस्य च एतेषां त्रयाणां ज्ञानं तव प्राभाकरस्यापेक्षितम् । मम नैयायिकस्य मत्कृतिसाध्यत्वस्य मदिष्टसाधनत्वस्येति द्वयोरेव ज्ञानस्य प्रवर्त्तकत्वम् । इष्टसाधनत्वस्य विधित्वपक्षे युक्तिमाह-अत एवेति (८२ - ३ ) | यदीष्टसाधनत्वं विधिस्तदा अनाप्तोक्तचा मण्डलीकरणादौ स्वर्गसाधनत्वभ्रमानन्तरं प्रवर्त्तमानोऽपि मण्डलीकरणं न स्वर्गसाधनमिति विशेषदर्शनानन्तरं निवर्त्तते । एवं सति यद्ज्ञानात् प्रवर्त्तते यदभावज्ञानान्निवर्त्तते तस्यैव विधित्वमिति भावः । न प्रवर्त्तते (८२ - ५ ) इति । मण्डली - करणादौ ।
उपसंहरति तस्मादिति (८२ - ५) । स्वतोऽसुन्दरो (८२ - ५ ) इति । स्वतः सुन्दरे सुखं दुःखाभावश्च यतो निरुपाघीच्छाविषयत्वात् तद्भिन्नं सुखदुःखाभावभिन्नं यावत् साक्षात् परम्परया वा सुखसाधनं वा दुःखाभावसाधनं वा तत् सर्वं स्वतोऽसुन्दरमेव सोपाधीच्छाविषयत्वात् । सुखेच्छया हि सुखसाधने प्रवर्त्तते । एवं दुःखाभावेच्छया हि दुःखासाधने प्रवर्त्तते । उपायेति (८२ - ६ ) । उपायार्थी यागकर्ता स कृतिसाध्यताज्ञानमात्रात् चिकीर्षतीति प्राभाकराणां मनोरथमात्रमित्यर्थः । यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org