________________
विधिवादटिप्पनम् । (८१-१३)। एवं सति यत् त्वया प्राभाकरेण प्रमाभ्रमसाधारणं तत्तदधिचिकीर्षाजन्यकृतित्वेन रूपेण कृतिसाध्यताज्ञानम् उपायानुपायसाधारण प्रवर्तकं यदि तदित्यर्थः । अनुपायतेति (८१-१४) । मण्डलीकरणं स्वर्गानुपाय इति मण्डलीकरणे स्वर्गानुपायताप्रतिसन्धानदशायां स्वर्गार्थिचिकीर्षाजन्यकृतित्वरूपेण कृतिसाध्यताज्ञानसम्भवात् तत्रापि मण्डलीकरणे प्रवृत्तिप्रसङ्ग इत्यर्थः । अत्र शङ्कते न चेति (८१-१५)। तथा च प्रवर्तकज्ञानसम्भवेऽपि प्रतिबन्धकस्यानुपायताज्ञानस्य सत्त्वात न प्रवृत्तिरित्यर्थः । दूषयति । एवं सतीति (८१-१६)।
तथाच प्रतिबन्धकाभावकारणत्वापेक्षया लघुभूतं स्वर्गोपायताज्ञानमेव कार. णमस्त्वित्यर्थः । दूषणान्तरमाह-एवमिति ( ८१-१८)। तथाच मण्डलीकरणं कुर्वीत अत्र इत्प्रत्ययस्यार्थः विध्यर्थः । स्वर्गार्थिचिकीर्षाजन्यकृतित्वेन रूपेण कृतिसाध्यत्वज्ञानात् कृतेर्जायमानत्वात् स्वर्गार्थिचिकीर्षाजन्यकृतिसाध्यत्वं मण्डलीकरणे बाधितं नास्तीति कृत्वा मण्डलीकरणं कुर्वीतेति वाक्यं प्रमाणं स्यादित्यर्थः । तस्येति ( ८१-१९) । स्वर्गार्थिचिकीर्षाजन्यकृतिसाध्यत्वस्येत्यर्थः । तत्रेति । (८१-१९) । मण्डलीकरणादौ । तद्बोधकस्येति (८१-१९) । स्वर्गसाधनता. बोधकस्य । शङ्कते-न चेति (८१-२०) । तत्रेति (८१-२०)। मण्डलीकरणादौ दूषयति । असाधनेऽपीति (८१-२१) । यतोऽनुपायेति । उपाये यादृशी चिकीर्षा तादृशी चिकीर्षा जायत एव । तथाच मण्डलीकरणादावपि स्वर्गार्थिचिकीर्षाजन्य कृतिसाध्यत्वमबाधितमित्यर्थः । न च मण्डलीकरणं स्वर्गस्यानुपाय इति ज्ञाने विद्यमाने या मण्डलीकरणानुकूला कृतिस्तग्जनिका या चिकीर्षा तस्यां स्वर्गार्थिचिकोर्षात्वं नास्तीति विशेषदर्शने विद्यमाने कथमनुपाये तादृशी चिकीर्षा, 'विशेषदर्शनस्य प्रतिबन्धकत्वादिति वाच्यं, विशेषदर्शनस्यासार्वत्रिकत्वात् । न हि विशेषदर्शनं सर्वत्र वत्तते येन भ्रमो न स्यात् ।
अत्र शङ्कते । न चेति (८१-२२) । तथाच न केवलं कृतिसाध्यत्वज्ञानमात्र प्रवर्तकम् । किन्तु मत्कृति विना असत्त्वे, सत्त्वे सति मम इष्टविशेषसाधनत्वात् । इतीष्टसाधनतालिङ्गकं यदनुमानं कृतिसाध्यस्वविषयकं तत्प्रवर्तकम् । मण्डलीकरणादौ अनुपायत्वज्ञानदशायां स्वर्गेष्ट साधनतालिङ्गक मत्कृतिसाध्यत्वं ज्ञानमेव नास्ति ।
दूषयति नैयायिकः । व्यभिचारेणेति (८१-२२)। यागो मत्कृतिसाध्यः “मदिष्टसाधनत्वात् इत्यत्र मदिष्टसाधनत्वं, कृत्यसाध्ये समुद्रतरणादौ मदिष्टसाधनत्वं
१. Ms repeats this phrase.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org