________________
. न्यायसिद्धान्तदीपे ज्ञानं तदेव प्रवर्तकमस्तीत्यर्थः । अस्येति (८१-६)। तद्धेतोरेवेति (८१-५) न्यायस्य । एवं च सति स्वेष्टसाधनतालिङ्गकचिकीर्षाजन्यकृतिसाध्यत्वज्ञानं दण्डादौ नास्तीत्युपसंहरति-न चेति (८१-७)। तथाभूतमिति (८१-७) प्रमारूपमित्यर्थः । ..ननु भ्रमरूपं दण्डादौ तादृशं स्वर्गेष्टसाधनतालिङ्गकचिकीर्षाजन्यकृतिसाध्यत्वज्ञानं भविष्यतीति प्रवृत्तिप्रसङ्ग इत्यत आह-यदेति (८१-७) । प्रकारान्तरमाह स्वर्गार्थीति (८१-८)। तादृशं प्रमारूपमेव ज्ञानं संवादिप्रवृत्तौ प्रवर्तकमिति । दण्डादौ स्वर्गाथिनो न संवादिप्रवृत्तिः । प्राभाकरमतं खण्डयति नैयायिकः । तदर्थीति (८१-१०)। स्वर्गार्थिचिकीर्षाजन्यकृतित्वेन रूपेण कृतिसाध्यत्वं स्वर्गसाधने यागादावपि नास्ति । यतः स्वर्गादिचिकीर्षायां पटा दिचिकीर्षाभ्रमे सति तत्र स्वर्गार्थिचिकीर्षाजन्यकृतित्वेन रूपेण कृतिसाध्यताज्ञानाभावात् तादृशपटादिचिकीर्षाजन्यकृतिसाध्यताज्ञानात् यागे प्रवृत्या यागोत्पत्तिन स्यात् । ननु अन्यचिकीर्षायां अन्यचिकीर्षाभ्रमे तादृशचिकीर्षाजन्यकृतिसाध्यताज्ञानात् कृत्युत्पत्तिर्नास्त्येवेत्यत आहअन्यथेति (८१-११) । दण्डोत्पत्त्यनुकूला या कृतिस्तज्जनिका या चिकीर्षा तस्यां पटादिचिकीर्षाभ्रमे तादृशपटादिचिकीर्षाकृतिसाध्यताज्ञानात् दण्डाद्युत्पत्तिर्न स्यात् । भ्रमेऽपि सति दण्डाद्युत्पत्तिस्तु जायत एव । शङ्कते न चेति (८१-१२)। दण्डादिकृतिजनकचिकीर्षायां पटादिचिकीर्षाभ्रमे सति पटादिचिकीर्षाजन्यकृतिसाध्यताज्ञानात् या दण्डानुकूला कृतिः तया कृत्या दण्डोत्पत्ति स्त्येवेतीष्टापत्तिः ।
समाधत्ते-तथाभूतेति (८१-१२) दण्डानुकूलकृतिजनकचिकीर्षायां पटादिचिकीर्षाभ्रमे सति तया कृत्या दण्डोत्पत्तिर्नास्तीत्यनुभवविरुद्धम् । अन्यथा वह्निविशेष्यकवह्नित्वप्रकारके ज्ञाने पटज्ञानत्वभ्रमे जाते सति वह्निज्ञानात् वह्नयर्थी न प्रवर्तेत । स्वर्गार्थिचिकीर्षाजन्यकृतित्वेन रूपेण कृतिसाध्यताज्ञानं चेत् प्रवर्तकं तदा स्वर्गाथिंचिकीर्षाजन्यकृतिसाध्यत्वप्रकारकं ज्ञानं यद् वर्तते प्रमाभ्रमसाधारणम् उपायानुपायसाधारणं तद्व्यतिरेकेणापि यागानुकूल कृतिजनकचिकीर्षायां पटा दिचिकीर्षाभ्रमे स्वर्गार्थिचिकीर्षाजन्यकृतित्वेन रूपेण कृतिसाध्यताज्ञानं नास्ति । तया कृत्या तयागोत्पत्तिस्तु जायते । तत्र या यागकृतिस्तस्यां तद्ज्ञानस्य व्यभिचारेण कारणत्वमेव नास्तीति पूर्वमुक्तम् । तन्न सम्भवति । अन्यचिकीर्षायाम् अन्यचिकीर्षाभ्रम एव नास्ति । यथा घटत्वेन रूपेण घटचिकीर्षात्वे ज्ञाते पटचिकीर्षात्वभ्रमः किं सम्भवति । अपि तु न, विशेषदर्शनस्य भ्रमविरोधित्वात् , इत्यत आह-किं चेति
१. भ्रमावस्थायाम् इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org