________________
विधिवादटिप्पनम् । तथाच कृतिसाध्येष्टसाधनत्वं न स्वर्गापवर्गसाधारणम् । कुतः, स्वर्गादीनाम् इष्टसाधनत्वाभावात् । कृतिविशेष साध्यत्वं तु स्वर्गापवर्गसाधारणमिति लाघवम् ।।
- अत्र शङ्कते । न चेति (८०-२३) । श्रमेऽपीति (८०-२३) । कृतिविशेषसाध्यत्वं श्रमेऽपि वर्तते । पाकानुकूलकृतिविशेषेण पाचकस्य श्रमोऽपि जायते न तु श्रमार्थमन्यः कृतिविशेषोऽपेक्ष्यते । समाधत्ते श्रमस्येति (८०-२३)। तथा च श्रमो न चिकीर्षाजन्यकृतित्वरूपेण कृतिविशेषसाध्यः । व्यभिचारमाह-द्वेषेति (८०-२४)। शत्रौ सर्प वा । द्वेषप्रभवनिवृत्तिप्रयत्नादपि श्रमोऽपि जायते । अत एव पलायनादौ श्रमजन्यस्य स्वेदलक्षणस्य फलस्यानुभवसिद्धत्वात् । तथा च न श्रमेऽपि प्रवृत्तिप्रसङ्ग इति भावः । अत्र शङ्कते न चेति (८०-२४)। अतीतभोजनादौ भोजनत्वेन प्रवृत्तिप्रसङ्गः, अतीतभोजनत्वेन वा । आधे त्वाह सामान्यत (८०-२५) इति । इष्टापादनादिति (८०-२५)। अतीतभोजनादौ भोजनत्वेन रूपेण प्रवृत्तिर्वतत एवेति । अन्त्ये त्वाह-समयेति (८०-२५) । अतीतभोजने अतीतभोजनत्वेन न प्रवृतिः, अती. तत्वस्य कृतिसाध्यत्वविरोधित्वात् । साध्यत्वेति (८१-१)। कृतिसाध्यत्वाभावेनेत्यर्थः। आपादकेति (८१-१) । प्रवृत्तिरापाद्या । कृतिसाध्यत्वमापादकं तन्नास्तीत्यर्थः ।
शङ्कते नन्वेवमिति (८१-१)। यथा स्वर्गार्थी चिकीर्षाजन्यकृतिसाध्यताज्ञानाधागे प्रवर्तते एवं स्वर्गार्थिनो दण्डादावपि प्रवृत्तिः स्यात् । स्वर्गार्थिनो यथा यागश्चिकीर्षाजन्यकृतिसाध्य इति ज्ञानम् तथा दण्डोऽपि चिकीर्षाजन्यकृतिसाध्य इति ज्ञानं वर्तत एव, तत्रापि प्रवृत्तिः स्यादित्यर्थः । अत इति (८१-३).। दण्डे चिकीर्षाजन्यकृतिसाध्यत्वज्ञानमात्रादित्यर्थः । तत्रेति (८१-३) । दण्डे । मैवमिति (८१-३)। प्राभाकरोक्तिः। समाधत्ते प्राभाकरः । स्वर्गेति (८१-४) । तथा यागो मत्कृतिसाध्यः मत्कृति विनाऽसत्त्वे सति स्वर्गेष्टसाधनत्वात् इति स्वर्गेष्टसाधनतालिङ्गकम् यत् कृतिसाध्यतानुमानं तत् प्रवर्तकम् । तदनुमानं दण्डादौ नास्ति, कुतः, दण्डस्य स्वर्गरूपेष्टसाधनत्वाभावात् । न दण्डादौ प्रवृत्तिप्रसङ्गः । शङ्कते न चेति (८१-५)। तथा च इष्टसाधनताज्ञानेन कृतिसाध्यत्वज्ञानं तस्मात् प्रवृत्तिः । लाघवात् कृतिसाध्यत्वज्ञानजनकं यदिष्टसाधनताज्ञानं तस्मादेव कुतो न प्रवृत्तिरित्यर्थः । तद्धेतोरिति (८१-५)। कृतिसाध्यत्वज्ञानहेतोरिष्टसाधनताज्ञानादेवेत्यर्थः । समाधत्ते इष्टेति (८१-५) । प्राभाकरी वक्ति । नैयायिकमते इष्टसाधनताज्ञानमात्र न प्रवतिकम् । किन्तु स्वान्तर्भावेन अनुमितिरूपम् । तथा च यदिष्टसाधनत्वानुमितिजनक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org