________________
१५२
न्यायसिद्धान्तदीपे ममापि नैयायिकस्य बलवदनिष्टानुबन्धित्वप्रतिसन्धानदशायाम् इष्टसाधनताविशेषस्य निषेधः कर्तुं शक्यत एव इत्यापाततः । प्राभाकरो वदति कार्यतेति (८०१५) । मन्मते वक्ष्यमाणानुमानजन्यप्रवर्तकज्ञानविषयोभूतं यत् कार्यत्वं स एव विध्यर्थः । तस्य निषेधः कर्तुं शक्यत एव । त्वन्मते इष्टसाधनत्वमात्रं विध्यर्थः तस्य च निषेधः कर्तुं न शक्यत इति भावः । अभिप्रायेति (८०-१५) पूर्वोक्तयुक्तेरिति भावः । चिकीर्षेति (८०-१६) । जीवनयोनिप्रयत्नसाध्ये प्राणपञ्चकसञ्चारे कृतिसाध्यत्वलक्षणं कार्यत्वं वर्तते इति कृत्वा कार्यत्वज्ञानात् प्राणपञ्चकसञ्चारोद्देशेन प्राणवहनाडीषु प्रवृत्तिः स्यात् इत्यतिप्रसङ्गवारणार्थ चिकी(जन्यत्वं विशेषणमित्यर्थः ।
__ अत्र शङ्कते । न चेति (८०-१७) । तथाच कृतिसाध्यत्वे चिकीर्षाविशेषणं तथाच विशेषणत्वेन कृतिसाध्यत्वरूपविशेष्यज्ञानवत् विशेषणरूपा या चिकीर्षा तद्ज्ञानस्यापि प्रवर्तकत्वं स्यादित्यर्थः । समाधत्ते । तस्या (८०-१७) इति । कृती चिकीर्षा न विशेषणं येन तद्ज्ञानस्य प्रवर्तकत्वं स्यात् । किन्तु कृतिविशेषे चिकीर्षा उपलक्षणम् । ननु कोऽसौ कृतिविशेष इत्यत आह- तस्य चेति (८०-१८) । कृतिविशेषस्य आख्यातुमशकयत्वेऽपि अवश्यं स्वीकर्तव्यत्वात् । युक्तिमाह-गुणेति (८०-१८) । तथाच-गुण्यतिरिक्ता गुणा रूपादयो न सन्ति, द्रव्यातिरिक्ता जातिर्नास्ति इति गुणनात्यनङ्गीकारवादिनामपि अन्धेन द्रव्यं गृह्यते । नीलः पीत इति निर्णेतुं न शक्यते । इति भिन्नभिन्नप्रयोजनानुरोधात् नीलादयस्तेषामनुभवसिद्धाः । तथैव कृतिविशेषः सर्वत्र कृतिमात्रे चिकीर्षा न कारणं यत्र कृतिविशेषे चिकीर्षा कारणं सा एव कृतिः चिकीर्षया उपलक्ष्यते इत्यर्थः ।
विपक्षे बाधकमाह-अन्यथेति (८०-१९) । ननु प्रयत्नमात्र एव चिकीर्षा कारणमस्तु इत्यत आह-प्रयत्नमात्र (८०-२०) इति । जीवनयोनिप्रयत्ने चिकीर्षाया. व्यभिचारात् । सुषुप्तौ श्वासानुश्वासप्रयत्ने चिकीर्षाया अभावात् । अयं व्यभिचारः । एवं सति गुण जात्यनङ्गोकारवादिनां चिकीर्षा कारणतया कृतिविशेषोऽनुभवसिद्धः किं पुनर्गुण जातिवादिनां कृतिविशेषोऽनुभवसिद्ध एव । चरणेति (८०-२०) युक्तिप्रसार एव नास्ति । . उपसंहरति तथा चेति (८०-२१) । प्राभाकरमते । तस्येति (८०. २२) कृतिसाध्यत्वस्य । ननु किं लाघवमित्यत आह-स्वर्गेति (८०-२२) ।
१. गुणजात्यनझीकारवादिनाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org