________________
विधवादटिप्पनम् ।
- १५१
अत्र शङ्कते । पर्युदासेति - ( ८० - १० ) । यथा असुरा अविधा इत्यंत्र पर्युदासना सुरविरोधिनो देवाः विद्याविरोधिनी अविद्या यथोपस्थाप्यते तद्वत् अनेनापि पर्युदासनजा न कलजं भक्षयेदित्यादिना इष्टविरोधि अनिष्टं तत्साधनत्वं नरकपातादि बोध्यते इत्यर्थः । न कल भक्षयेदिति पर्युदासनञ् एव न भवतीति । दूषयति--नेति ( ८० - ११) । अत्र देतुमाह - असमस्तत्वादिति (८०-११) असुरा अविद्येत्यत्र समस्तत्वात् स पर्युदासनञ्, अयं न कलञ्जम् इत्यादिको नञ् न समस्तः । पर्युदासं खण्डयित्वा निषेधरूपत्वे साधकमाह - क्रियेति (८०-११) न घटोऽस्तीत्यादिवत् क्रियान्वयित्वात् निषेधरूपः । अत्र शङ्कते न चेति (८०-११) कलञ्जभक्षणस्य नरकसाधनत्वेन बलवदनिष्टाननुबन्धि यदिष्टं तत्साधनत्वं निषिध्यते यतः कलञ्जभक्षणात् तृप्तिरूपं यदिष्टं तद्बलवदनिष्टं यन्नरकरूपं तदनुबन्धि तत्सम्बन्धिजातमतो बलवदनिष्टाननुबन्धीष्टसाधनत्वं निषिध्यते । दूषयति- भवेदिति ( ८० - १२ ) । एवमर्थं विवृणोति यदीति (८० - १२ ) । इत् प्रत्ययस्य विधेस्त्वन्म ते इष्टसाधनत्वमर्थः । न तु बलवदनिष्टाननुबन्धित्वं इत्प्रत्ययार्थः येन बलवदनिष्टाननुबन्धित्वस्य निषेधो भवेत् । मम प्राभाकरस्य कार्यत्वं विधिः इष्टसाधनत्वं विधिरेव नेति न दोषः ।.
,
ननु यदि नञा बलवदनिष्टाननुबन्धीष्टसाधनत्वस्य निषेधो न बोध्यते तदा कलञ्जभक्षणादेः कार्यत्वविधिपक्षे निरवकाशा प्रवृत्तिः स्यात्, कार्यत्वस्य तत्रापि विद्यमानत्वादित्यत आह- किन्तु ( किञ्चे ) ति ( ८० - १३) । तथाच कार्यताविधिपक्षे प्राभाकराणां बलवदनिष्टानुबन्धित्वप्रतिसन्धानं वर्त्तते तदेव प्रवृत्तिप्रतिबन्धकं तच्चाग्रे निरूपणीयमिति भावः । अत्र शङ्कते नैयायिकः । नन्विति (८०१४) । एतावता इष्टसाधनत्वस्य विध्यर्थत्वखण्डनेन तव कार्यत्वं विध्यर्थो न - सिद्ध: । न च प्रतिबन्दी अदूषणमित्यत आह- एतावदेवेति (८० - १५) | मम यथा इष्टसाधनत्वं विध्यर्थो न भवति उक्तदोषात् कलञ्जभक्षणे तृप्तिरूपेष्टसाधनत्वस्य विद्यमानत्वात् तथा तव कार्यताविध्यर्थवादिनः कार्यत्वमपि विध्यर्थो न भवति उक्तदोषादित्येव ममापि साध्यं मम प्रतिबन्धेव साध्या । प्रकृते (८० - १५ ) इति । इष्टसाधनत्वविधिपक्षे प्रतिबन्धेव साध्या । अयमर्थः । यथा तव कार्यत्वमात्रं विधिः कलञ्जभक्षणादौ कार्यत्वस्य निषेधः कर्तुं न शकयते इतिकृत्वा वक्ष्यमाणकार्यत्वविशेषस्य नञा निषेधः, स च विशेषः बलवदनिष्टानुबन्धित्वप्रतिसन्धाने सति तस्य कार्यताविशेत्रस्य निषेवः कर्तुं शकयत एव तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org