________________
१५०
न्यायसिद्धान्तदीपे दूषयति स्वर्गेति (७९-२४) । स्वर्गादिको विषयः उपलक्ष्यः । तस्मिन् इच्छोपलक्षणम् । न च स्वर्गादावुपलक्ष्ये स्वर्गापवर्गसाधारणमुपलक्ष्यतावछेदकमनुगतमस्तीत्यर्थः। स्वर्गापवर्ग इत्यत्र भावपरो निर्देशस्तेन स्वर्गत्वस्यापवर्गवैकस्योपलक्ष्येषु स्वर्गापवर्गादिषु एकस्याभावेन अननुगमादित्यर्थः । तच्चेति (८०-१)। इष्टसाधनताज्ञानमित्यर्थः । यतो ज्ञानस्य प्रवृति प्रति या कारणता सा इच्छाद्वारैव । इष्टसाधनताज्ञानस्य इच्छाजनकत्वे दोषमाह-व्यभिचारादिति (८०-२) । व्यभिचारमेव विवृणोति तथाहीति (८०-३)। तस्येति (८०-३)। इष्टसाधनताज्ञानस्य इच्छामात्रं वा जन्यम् अथवा चिकीर्षा वेत्यर्थः । जन्येति (८०-३)। जन्या या इच्छा तस्या विशेषश्चिको रूपः । उपायेति (८०-४)। इष्टसाधनताज्ञानम् । स्वर्ग (८०-४) इति । स्वर्गभोगयोः स्वत एवेष्टरूपत्वेन इष्टसाधनत्वाभावात् । द्वितीयेऽपि व्यभिचारमाहस्वर्गादाविति (८०-५)। कृतिसाध्यत्वप्रकारिका या इच्छा सा चिकीर्षा । सा च स्वर्गे भोगे च इष्टसाधनताज्ञानव्यतिरेकेणापि तिष्ठति । ननु कृतिसाध्यत्वप्रकारिका कृतिसाध्यक्रियाविषयिणी इच्छा सा चिकीर्षा, स्वर्गादौ या कृत्या साधयितुमिच्छा सा यद्यपि कृतिसाध्यत्वप्रकारिका तथापि सा कृतिसाध्यक्रियाविषयिणीच्छा न भवति, कुतः । स्वर्गादीनां क्रियारूपत्वाभावात् । क्रिया हि स्वोपादानगोचरकृतिजन्या । न च स्वर्गाद्युपादानमात्मा, तद्गोचरा कृतिरस्ति व्यापकानां नित्यानां जन्यकृतिविषयस्वाभावादित्यरुचेराह-किञ्चेति (८०-७) । इष्टेति (८०-७)। नित्यानां सन्ध्यावन्दनादौनां इष्टाभावात्, किन्तु प्रत्यवायनिमित्तमात्रार्थत्वात् ।
ननु नित्यादौ प्रत्यवायनिवृत्तिरेवेष्टं फलं तत्साधनत्वं भविष्यति इत्यरुचेराहन कलजमिति (८०-८)। कलजं फलमित्येके । कलजं दग्धमन्नमित्येके । कलजं मांसमित्यपरे । न कलजं भक्षयेदित्यत्र भक्षधातोरुपरि इत्प्रत्ययो लिङ्,तस्यार्थस्तन्मते नैयायिकमते इष्टसाधनत्वम् । अत्र च नञा कस्य निषेधः क्रियते ? न कलञ्जभक्षणस्य तस्य सत्वात् । कञ्जभक्षणं नास्तीति निषेधः कर्तुं न शक्यतेऽव्युत्पत्तेश्च प्रकृत्यर्थस्य प्रत्ययार्थान्वितत्वात् । तस्माद् विध्यर्थो यस्तन्मते नैयायिकमते इष्टसाधनत्वं तस्यैव निषेधः कर्त्तव्यः । उपायतेति (८०-८) इष्टसाधनत्वविधिपक्षे । अस्तु इष्टसाधनत्वमेव निषेध्यं को दोष इत्याह-इष्टेति (८०-९)। बाधं विवृणोति-न हीति (८०-९) । तथाच कलञ्जभक्षणस्य तृप्तिरूपेष्टसाधनत्वेन न ना निषेधः कर्तु शक्यते इत्यर्थः । किश्चिदिति (८०-१०) कलञ्जभक्षणस्य तृप्तिरूपेष्टसाधनत्वादित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org