________________
विधिवादटिप्पनम् । दूषयति पूर्वेति (७९-१९)। निरूपकभेदेनाविरोधेऽपि साध्यतादशायामेकस्मिन् साधनत्वम् नास्ति, साधनतादशायां साध्यत्वं नास्तीत्येकस्मिन्नेककालावच्छेदेन साध्यत्वसाधनत्वयोर्विरोधात् पूर्वदोषापरिहार इत्यर्थः । साध्यत्वाऽनन्तर्भावेन शङ्कते-स्वकृतीति(७९--१९) । अत्र ज्ञाने साध्यत्वं न विषय इति कृत्वा साध्यत्वसाधनत्वयोर्न विरोध इति । स्वकृतिव्यतिरेकेण यन्न सिध्यति स्वेष्टसाधनं चेति ज्ञानात् (७९-२०) प्रवृत्तिः । नैतदिति (७९--२०) । विरोधदोषो नास्ति । साध्यत्वसाधनत्वयोर्विरोधलक्षणो दोषो नास्तीत्यर्थः । अल्प (७९--२०) इति । मधुविषसंपृक्तान्नभोजनं तृप्तिरूपेष्टसाधनं भवति बह्वनिष्टं यन्मरणं तत्साधने भोक्तुः कृतिव्यतिरेकेण न सिध्यति, तृप्तिरूपेष्ट साधनं भवति तत्र प्रवृत्तिः स्यादित्यर्थः ।
ननु बलवदनिष्टाऽननुबन्धित्वमिष्टे विशेषणं तथा च मधुविषप्तम्पृकान्नभोजनस्येष्टसाधनत्वेऽपि बलवदनिष्टाननुबन्धीष्ट साधनत्वं नास्ति किन्तु मरण साधनत्वात् इत्यरुचेराह-किञ्चेति (७९-२१)। यदिति (७९-२१) । यदिष्टं प्रति साधनं तदिष्टं किं विवक्षितमिति योजना । इष्टत्वमेव निर्वक्तुमशकयमित्यर्थः । अत्र शङ्कते वर्तमान (७९-२१) इति । तथाच वर्तमानेच्छाविषयत्वम् असिद्धस्य वस्तुनः, न तु सिद्धस्य तेन असिद्धं यत् फलम् इष्टं तत्साधनताज्ञानात् तत्साधने प्रवृत्तिर्भविष्यतीत्यर्थः । दूषयति । इच्छेति (७९-२२)। इच्छाविषयम् इष्टं तत्साधनताज्ञाने इच्छा १ विषयः २ साधनं ३ त्रयाणाम् इष्टसाधनताज्ञानविषयसाधनयोर्ज्ञानमिव इच्छाज्ञानस्यापि 'कारणत्वप्रसङ्गात् । कारणीभूतज्ञानविषयत्वस्य त्रिषु तुल्यत्वात् । अत्र गूढाभिसन्धिः शङ्कते । इच्छेति (७९-२२)। तथाच इच्छाविषयता सुखादौ वर्तते तस्या इच्छाविषयतायाः अवच्छेदकरूपं सुखत्वं तद्वत्त्वं सुखादो वर्तते । प्रतीतिनिं । दूषयति तत्वादिति (७९-२३) । इच्छाविषयतावच्छेदकरूपवत्त्वमित्यत्र इच्छाया विशेषणत्वेन ज्ञानविषयत्वात् इच्छाज्ञानस्याऽपि कारणत्वं स्यादित्यर्थः । अमिप्रायमुद्घाटयति इच्छेति (७९-२३) । इच्छाया उपलक्षणत्वेन ज्ञानविषयत्वनियमो नास्ति इतिकृत्वा इच्छाज्ञानं प्रवर्तकं न, उपलक्षणस्य क्रियान्वयनियमो नास्ति । यथा कुरुक्षेत्रे गतोऽत्र गमनान्वयि क्षेत्रमेव न तु कुरवः कुरूणामविद्यमानानामपि क्षेत्रान्तराद्वयावर्तकत्वमस्ति । तद्वद्विषये इच्छोपलक्षणम् उपलक्षणत्वादेव ज्ञानविषयत्वनियमो नास्तीति नेच्छाज्ञानं प्रवर्तकमित्यर्थः ।
१. यथा विषयसाधनयोनि प्रवर्तक तद्वदिच्छाज्ञानमपि प्रवर्तक भविष्यति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org