________________
१४८
न्यायसिद्धान्तदीपे साधनत्वप्रवेशे विशेष इत्याह--तथा चेति (७९--११) । अध्यवसायकर (७९--११) इति निश्चयकर इति । ननु प्राभाकरो वक्ति ममापि कृतिसाध्यो यागः स्वर्गसाधकः । अत्र यागनिष्ठेन कृतिसाध्यत्वेन यागनिष्ठं स्वर्गसाधकत्वं समानाधिकरणमपि भवति सजातीयमपि भवति इति कृत्वा ममापि साजात्यसामानाधिकरण्याभ्यां च विशेषस्तुल्य इत्यत आह--उभयत्रेति (७९--११) । तव साध्यत्वे दत्तपदम् । मम नैयायिकस्य साधनत्वे दत्तपदम् । यथा तव मत्कृतिसाध्यो यागः स्वर्गसाधकः, मम मस्कृतिसाधनको यागः स्वर्गसाधनं, तव उभयत्र साध्यत्वप्रवेशान्मम उभयत्र साधनत्वप्रवेशान्नैकपक्षस्वीकार इत्यर्थः ।।
...ननु प्राभाकरो वक्ति-तव नैयायिकस्य न समीहितसिद्धिरित्यत आह--अत्र त्विति । पूर्वपक्षिणो विनिगमनाविरहे न कापि क्षतिरित्यर्थः । इष्टसाधनताज्ञानं प्रवतमिति नैयायिकमतं वण्डयति । नन्वेवमिति (७९--१३) । असाध्ये समुद्रतरणादाविति । कृतीति (७९-१४) । कृतिसाध्यत्वे सति इष्टसाधनत्वमित्यर्थः । पूर्वपक्षी वदति नेति (७९--१४)। अन्येति (७९--१४)। स्वकृत्यसाध्ये अन्यकृतिसाध्ये कारीर्यादी कृतिसाध्यत्वे सति इष्टसाधनत्वात् कारीरी कर्तुमसमर्थस्यापि प्रवृत्तिः स्यादित्यर्थः । अत्र शङ्कते स्वकृतीति (७९--१५) । तथाच स्वकृतिसाध्यत्वे सति इष्टसाधनत्वम् । कारीरों कर्तुमसमर्थस्य कारीरो स्वकृतिसाध्यैव । नेति(७९--१५)। नकारीमतिप्रसङ्ग इत्यर्थः । दूषयति स्वकृतीति (७९--१६)। स्वकृतिसाध्ये विषभक्षणादो अन्येष्टसाधने स्त्राऽनिष्टसाधने प्रवृत्तिप्रसङ्गात् इत्यर्थः । अत्र शकते इष्टत्व मिति (७९-१६)। तथाच स्वकृतिसाध्यत्वे सति स्वेष्टसाधनत्वमिति स्वानिष्टसाधनम्, अन्येष्टसाधनं तु न स्वेष्टसाधनमित्यर्थः । दूषयति-तथाभूतेति (७९-१७) । तथा वाऽतोतभोजनस्य स्वकृतिसाध्यत्वे सति स्वेष्टसाधनत्वात् तत्र प्रवृत्तिप्रसङ्ग इत्यर्थः ।
ननु विद्यमानत्वमपि विशेषणमित्यत आह-तथाभूतेति (७९ -१७) । स्वर्गसाधनत्व कृतिसाध्यत्वयोरित्यर्थः । साध्यत्वं विद्यमानपागभावप्रतियोगित्वं, साधनत्वं विधमानप्रागभावाप्रतियोगित्वम् । तयोर्विरोधेनैकत्रावस्थातुमशक्यत्वात् इत्यर्थः । पतदेव विवृणोति-नहीति (७९-१८)। उत्तरभावी(७९-१८)ति विद्यमानप्रागभावप्रतियोगिपूर्वभावोति विद्यमानप्रागभावाप्रतियोगीत्यर्थः । निरूपकेति (७९-१९)। तथाच यत् यस्य साध्यं तत्तस्य साधनं न भवति । यथा घटः कपालस्य साध्यः कपालस्य साधनं च न भवति, एकनिरूप्यत्वेन साध्यत्वसाधनत्वयोर्विरोधात् । कपालस्य साध्यो जठाइणय साध समिति निरूपभेदेनाविरोध इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org