________________
विधिवादटिप्पनम् ।
१४७ छयोस्तत्र न तु समानविशेष्यत्वं गौरवादित्यर्थः । तुष्यतु दुर्जन इतिन्यायेन समानविशेष्यत्वेन ज्ञानेच्छाकृतीनां भवतु कार्यकारणभावस्तथापि नानुपपत्तिरित्याह-कृतीति (७९-५)। स्वर्गेति (७९-६)। स्वर्गः साध्यं यस्य अत्र साधनविशेष्यकमेव ज्ञानं साधनविशेष्यकैव प्रवृत्तिरिति समानविशेष्यकत्वमपि ज्ञानप्रवृत्त्योः सुलभम् इतिकृत्वा ज्ञानप्रवृत्योः समानविशेष्यकत्वेन कार्यकारणभावः । समानविशेष्यकत्वम् एकविशेष्यकत्वमिति यावत् , यदेव ज्ञाने विशेष्यं तदेव प्रवृत्तौ विशेष्यं यदेव प्रवृत्तौ विशेष्य तदेव ज्ञाने । कृतिसाध्यो यागः स्वर्गसाधक एतस्मिन् ज्ञाने यागे विशेष्ये कृतिसाध्यत्वं स्वर्गसाध्यत्वं च विशेषणद्वयम् ।
प्रवर्तकज्ञानखण्डनवादी दूषयति । यथेति (७९-७)। कृतिसाध्यो याग इत्यत्र साध्यत्वस्य समानजातीयतया स्वर्गनिष्ठयागसाध्यत्वमेवातिप्रसङ्गवारणार्थ प्रवेश्यते न तु स्वर्गसाधनत्वम् , साध्यत्वापेक्षया विजातीयत्वात् , इति तव प्राभाकरस्य साध्यत्वप्रवेशे साजात्यं साधकं तथा ममापि नैयायिकस्य कृतिसाध्यो याग इत्यत्र यागे कृतिसाध्यत्वं विशेषणं तेन कृतिसाध्यत्वेन विशेषणेन सह समानाधिकरणमेव [इति] अतिप्रसङ्गवारणार्थ स्वर्गसाधनत्वरूपं विशेषणं प्रवेशनीयम् । न तु स्वर्गनिष्ठयागसाध्यत्वं, यागनिष्ठेन कृतिसाध्यत्वेन स्वर्गनिष्ठयागसाध्यत्वस्य व्यधिकरणत्वात् । कृतीति (७९-७)। यागनिष्ठा या कृतिसाध्यता तद्रूपस्य प्रकारस्येत्यर्थः । साधनस्वेति (७९-८)। यागनिष्ठस्वर्गसाधनत्वमिति भावः ।
उपसंहरति-तथा चेति (७९-८)। साध्यसाधनज्ञानस्येति कोऽर्थः । कृतिसाध्यो यागः स्वर्गसाधनम् इति ज्ञानस्येत्यर्थः । नत्विति (७९-९)। मत्कृतिसाध्यस्य यागस्य स्वर्गः साध्य इति ज्ञानस्येत्यर्थः ।
ननु प्राभाकरो वदति-मम यागनिष्ठकृतिसाध्यत्वेन सजातीयं स्वर्गनिष्ठसाध्यत्वं व्यधिकरणमप्यतिप्रसङ्गभङ्गार्थ प्रवेशनीयमिति मम साजात्यं नियामकम् । तव यागनिष्ठेन कृतिसाध्यत्वेन समानाधिकरणं स्वर्गसाधनत्वं साध्यत्वेन विजातीयमपि अतिप्रसङ्गभङ्गार्थ प्रवेशनीयं साधनत्वप्रवेशे सामानाधिकरण्यं नियामक तथाच मम साजात्यं नियामकं तव सामानाधिकरण्यं नियामकम् उभयोः पक्षयोर्नियामकाविशेषात् न तव समीहितसिद्धिरित्यत आह-किन्चेति (७९-९)। यदि कृतिसाध्यत्वं विशेषणमुपजीव्यं ते तदाऽविशेषो भविष्यति । तदेव नाश्रीयते इत्याह-अपि त्विति (७९१०)। कृतिः साधनं यस्येत्यर्थः । शेषाद्वेति कः । तथाच यागनिष्ठकृतिसाधनकत्वं यागनिष्ठं यत् स्वर्गसाधनत्वं तत् समानाधिकरणमपि भवति सजातीयमपि भवति इति मम नैयायिकस्य सामानाधिकरण्यसाजात्याभ्यां तव प्राभाकरस्य साजात्यमात्रात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org