________________
१४६
न्यायसिद्धान्तदीपे प्रवर्त्तते इत्यर्थः । अत्र शङ्कते-तत्रेति (७८-२५)। घटसाधनं दण्ड इति ज्ञानं आयते यत्र तत्र तद्ज्ञानानन्तरं दण्डसाध्यो घट इति ज्ञानमवश्यं जायते अत्र किं नियामकमित्यर्थः । समाधत्ते शूण्विति (७८-२६) । तवापि नैयायिकस्यापि कृतिजन्यत्वं कृत्यजन्ये प्रवृत्तिर्न भवतीत्युपजीव्यं भवति, एवं च प्रवृत्त्यर्थकृतिसाध्यत्वज्ञाने उभयोर्वादिनोरावश्यके सति दुःखसाधने प्रवृत्तेरभावात् यागसाध्यः स्वर्ग इति यागसाध्यत्वमेव विषयतावच्छेदकं न तु स्वर्गसाधनत्वम् उभयसिद्धं यत् कृतिसाध्यत्वं तदपेक्षया साधनत्वस्य विजातीयत्वात् । साध्यत्वस्य समानजातीयत्वात् साध्यत्वमेवावच्छेदकं न तु साधनत्वम् । कृतिसाध्यत्वमित्यत्र साध्यत्वापेक्षया साधनत्वस्य विजातीयत्वादित्यर्थः । तत्रेति (७८-२५) कृतिसाध्यत्वे । अनिष्टसाधने प्रवृत्तिप्रसङ्गवारणार्थ विशेषणान्तरमिति । इष्टसाधनत्वं स्वसाध्येष्टकत्वं वा । विशेषणान्तरयोजना यथा कृतिसाध्येनेष्टं साध्यं अथवा कृतिसाध्यम् इष्टसाधनम् इति विशेषणान्तर कल्पनीयमित्यर्थः । तत्रेति (७८-२६)। विशेषणान्तरकल्पने आवश्यके साध्यत्वमेव विशेषणमवश्यं कल्पनीयमित्यत्र युक्तिमाह-क्लप्तमिति (७९-१)। गौरवादिति (७९-२)। कृतिसाध्यत्वमित्यत्र साध्यत्वापेक्षया साधनत्वस्य विजातीयत्वेन गौरवादित्यर्थः । प्रथम (७९-२) इति । साध्यत्वमेवेत्यर्थः । ननु सजातीयत्वमात्रं साध्यत्वविशेषणप्रक्षेपे न नियामकमित्यत आह–इदमिति (७९-२) परेषामिति (७९-३) प्राभाकराणाम् । अणुरिति (७९-३)। सजातीयत्वमात्रम् । अध्यवसाय (७९-३) इति । कृतिसाध्यत्वे विशेषणप्रक्षेपकरम् । तस्मात् कृतिसाध्यत्वे साध्यत्वमेव विशेषणं देयम् । न तु साधनत्वं, तस्य विजातीयत्वात् ।
' अत्र शङ्कते-न चेति ((७९-४)। ज्ञानेच्छाकृतीनां समानविशेष्यकत्वात् यद्विशेष्यकं ज्ञानं तद्विशेष्यका इच्छा तद्विशेष्यिकैव कृतिः यथा कपालं घटसाधनम् इति कपालविशेष्यकं ज्ञानं तदनन्तरं कपालं घटवत्तया कृत्या साधयामि [इति कपालविशेष्यका चिकीर्षा तदनन्तरं कपालविशेष्यका कृतिः कृतिसाध्येन साध्यं फलम् इष्टम् इति फलविशेष्यकज्ञानात् कथं साधनविशेष्यका प्रवृत्तिरित्यर्थः । किन्तु फलविशेष्यकैव प्रवृत्तिः स्यादित्यर्थः । साधनस्येति (७९-४) । ज्ञानेच्छाकृतीनां न समानविशेष्यत्वेन कार्यकारणभावः किन्तु समानविषयत्वेन । एवं च सति कृतिसाध्ययागरूपसाधनसाध्यः स्वर्ग इति ज्ञानात् प्रवर्तते । एतस्मिन् ज्ञाने तु साध्ये साधनस्य प्रकारतया विषयत्वेन फलविशेष्यकमषि ज्ञानं साधनविषयकं भवत्येव तेन फलविशेष्यकेन साधनविषयकेन साधनविशेष्यका प्रवृत्तिर्भवत्येवेत्यर्थः । तद्विषयत्वादिति (७९-५)। साधनििदत्यर्थः । विशेष्यत्वस्येति (७९--५) प्रवृत्तौ समानविषयत्वं ज्ञाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org