SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ विधिवादटिप्पनम् । १४५ समानसंविसंवेद्यतया, तद्वदत्र यागे समानसंविसंवेद्यतया स्वर्गसाधनत्वं बुध्यते । बुध्यतां स्वर्गसाधनत्वं तथापि मत्कृतिसाध्यस्वर्ग इत्येव ज्ञानं प्रवर्तकमित्यत आहविनिगमनेति--(७८-२०) । यागसाध्यत्वस्वर्गसाधनत्वयोनिस्याविशेषे यागसाध्यत्वज्ञानमेव कारणमित्यत्र नियामकाभावः । दूषयति समानेति-(७८-२१)। घटा भाव इत्यत्र घटस्य प्रतियोगित्वे बुद्धे अभावेऽप्यनुयोगित्वं बुध्यते । प्रतियोगित्वानुयोगित्वयोः परस्परनिरूप्यत्वेन तद्भाने तभानस्यावश्यकत्वात् समानसंविसंवेद्यत्वम् , न च यागसाध्यस्वर्ग इत्यत्र स्वर्गे साध्यत्वे लब्धे यागे स्वर्गसाधनत्वं लभ्यते किन्तु यागसाध्यो यः स्वर्गस्तत्प्रतियोगित्वं यागे लभ्यते न तु स्वर्गजनकत्वम् । जन्यत्वजनकत्वयोः परस्परं निरूप्यत्वभावात् । प्रतियोगित्वानुयोगित्वयोः परस्परं निरूप्यत्वं वर्त्तते इतिकृत्वा तद्भाने तभानादित्यावश्यकत्वात् । एतदेव विवृणोति-याग (७८-२१) इति । नत्विति-(७८-२२) यागसाध्यस्वर्ग इत्यत्र यागनिष्ठस्वर्गनिरूपितनियतपूर्ववृत्तित्वबोधकसामग्रयभावात् किन्तु स्वर्गनिष्ठनियतोत्तरभावप्रतियोगित्वमित्यर्थः । अत्र शङ्कते नन्विति (८७-२३) । यदि यागसाध्यः स्वर्ग इत्यत्र स्वर्गसाधनत्वं यागे स्वर्गसाधनं याग इत्यत्र यागसाध्यत्वं स्वर्गे चेन्न बुध्यते तर्हि घटसाधनं दण्ड इति वाक्यात् प्रथमत एव दण्डे घटसाधनत्वज्ञानाद् घटार्थी दण्डे प्रवर्तते एवं स्वर्गसाधनं याग इति प्रथमत एव यत्र ज्ञानं तत्र स्वर्गसाधनत्वज्ञानादेव स्वर्गार्थी यागे प्रवर्त्तते इतिकृत्वा यागसाध्यत्वज्ञानव्यतिरेकेणापि स्वर्गसाधनत्वज्ञानात् यागे प्रवृत्तेः यागसाध्यत्वज्ञानं व्यभिचारि तत्र स्वर्गसाधनं याग इत्यत्र यागे स्वर्गसाधनत्वे लब्धे यागसाध्यत्वमपि स्वर्गे लभ्यते समानसंवित्संवेद्यत्वात् । तर्हि यागसाध्यः स्वर्ग इत्यत्रापि स्वर्गे यागसाध्यत्वे लब्धे यागे स्वर्गसाधनत्वं समानसंविसंवेद्यतया लब्धं शक्यते इति स्वर्गसाधनत्वज्ञानमपि प्रवर्तकं स्यादिति भावः । ननु घटसाधनं दण्ड इति वाक्यात् घटार्थिनो दण्डे प्रवृत्ति - स्त्येव इत्यत आह-तत्रेति । घटसाधनं दण्ड इति ज्ञानात् घटार्थिनो दण्डे या प्रवृत्तिरनुभवपिद्धा सा न स्यात् । किमिति (७८-२४)। किं शब्दः कटाक्षे । तद्ज्ञानादिति । घटसाधनं दण्डः स्वर्गपाधनं याग इति ज्ञानादित्यर्थः । दूषयति आपातत (७८-२४) इति । प्रथमतः घटसाधनं दण्ड इति ज्ञानमात्रादेव घटार्थिनो दण्डे प्रवृत्तिस्त्येिव किं तहस्त्यत आह---किंत्विति (७८-२४)। घटे साधनं दण्ड इति ज्ञानानन्तरं दण्डसाध्यो घट इति ज्ञानमवश्यमुत्पद्यते तेन च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002636
Book TitleNyayasiddhantadipa
Original Sutra AuthorShashadhar
AuthorBimal Krishna Matilal
PublisherL D Indology Ahmedabad
Publication Year1976
Total Pages270
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy