________________
न्यायसिद्धान्तदीपे ननु येन विशेषप्रकारेण पाकादौ चिकीर्षा जायते तेन विशेषप्रकारेण पाकादिस्वरूपज्ञानं यद्वर्त्तते तदेव पाकादौ प्रवर्त्त कमित्यत आह स्वरूपति (७८१४)। तस्यैवेति (७८--१४)। विशेषप्रकारस्येत्यर्थः । नोपान्त्य (७८-१४) इति । श्रमे पाकादिचिकीर्षाजन्यकृतिसाध्यत्वं वर्तते पूर्व पाके कृतिसाध्यत्वज्ञानात् पाके चिकीर्षा जायते तया चिकीर्षया पाकानुकूला कृतिरुत्पद्यते । तया च कृत्या पाक उत्पद्यते । तया च कृत्या मध्ये श्रमोऽपि उत्पद्यते इति श्रमेऽपि प्रवृत्तिः स्यादित्यर्थः । श्रमस्य दुःखरूपत्वेनाऽनिष्टफलरूपत्वेन च प्रवृत्तिविषयत्वाभावादित्यर्थः ।
दूषणान्तरमाह-चिकीर्षेति (७८-१५)। चिकीर्षा स्वरूपसती प्रवृत्तिजनिका न तु तस्याः ज्ञानं, चिकीर्षाजन्यकृतिसाध्यत्वज्ञानस्य प्रवृत्तिजनकत्वे चिकीर्षाज्ञानमपि प्रवृत्तिजनकमित्यागतमित्यर्थः । यथा रजतत्वविशिष्टरजतज्ञानस्य प्रवर्तकत्वे रजतत्वस्य विशेषणतया रजतत्वज्ञानमपि प्रवर्तकं तद्वदनापीत्यर्थः । चिकीर्षाविषयत्वज्ञानस्य प्रवर्तकत्वे चिकीर्षाया विषयत्वे चिकीर्षाया विशेषणत्वेन चिकीर्षाज्ञानस्यापि प्रवर्तकत्वं स्यादित्यर्थः । मत्कृतीति (७८-१७)। मत्कृतिसाध्यो यो यागस्तेन साध्यः स्वर्ग इति ज्ञात्वा यजमानस्य यागे प्रवृत्तिः । इदमिति(७८-२८) कृतिसाध्यत्वमेव । परेषामिति (७८-१८) प्राभाकराणाम् । कार्यतापदेन कृतिमाध्यत्वमुच्यते प्राभाकरैः । स्वप्रवृत्ताविति (७८-१८) स्वस्य कामिनीसम्भोगादी। इदमेवेनि (७८१९)। इदं कृतिसाध्यत्वम् ।
__ ननु कृतिसाध्यत्वज्ञानस्य प्रवर्तकत्वे बालस्य स्तनपाने प्रवृत्तिर्न स्यात् तदानीमुत्पन्नस्य बालस्य स्तनपानप्रवृत्तेः पूर्वं कृतिसाध्यत्वज्ञानाभावात् इत्यत आहबालस्यापीति (७८-१९)। एवं च सति कार्यात् कारणानुमानम् । पूर्वोक्तयुक्त्या कृतिसाध्यत्वज्ञानस्य कारणत्वे सिद्धे इयमपि बालस्य स्तनपाने प्रवृत्तिः कृतिसाध्यत्वज्ञानरूपकारणजन्या प्रवृत्तित्वात्, मत्प्रवृत्तिवत् इति बालस्य कृतिसाध्यत्वज्ञानमुन्नीयते । तच्च यद्यप्यनुभवरूपं नास्ति तथापि जीवनान्यथाऽनुपपत्त्या संस्कारवशात् स्मृतिरूपमुन्नीयते इत्यर्थः ।
__ शङ्कते नचेति-(७८-२०) । यथा दण्डसाध्यघटसाध्यजलाहरणम् अत्र जलाहरणे घटसाध्यत्वे बोधिते जलाहरणसाधनत्वमपि घटे बोध्यते । एवं घटे दण्डसाध्यत्वे बोधिते दण्डेऽपि घटसाधनत्वम् । तद्वत् स्वर्गे यागसाध्यत्वे बोधिते यागेऽपि स्वर्गसाधन[त्वम् बोध्यते इत्यर्थः । युक्तिमाह-समानेति (७८२०) । यथा घटाभाव इत्यत्र घटस्य प्रतियोगिवे लब्धे अभावेऽप्यनुयोगित्वम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org