________________
विधिवादटिप्पनम् ।
१४३
अथापि चिकीर्षाविषयत्व [क]ज्ञानस्य प्रवर्त्तकत्वे दूषणान्तरमाह-अ - अन्योन्येति (७८-८) । तमेव विवृणोति । यदि चिकीर्षा विद्यते तदा चिकीर्षाविषयत्व[क]ज्ञानं चिकीर्षाविषयत्व[क]ज्ञाने सति चिकीर्षा इत्यर्थः । तद्बोध (७८ -८) । इति चिकीर्षा - विषयत्व[क]बोधः । तस्मिन्निति (७८ - ९ ) । चिकीर्षाविषयत्व [क] बोधे सतीत्यर्थः । अननुगमादिति (७८ - ९ ) । चिकीर्षाविषयतावच्छेदकानां यागत्वपाकत्वादोनां अननुगतत्वादित्यर्थः । भवतु कश्चन पाकत्वाद्यतिरिक्तः यागपाकादावनुगतोऽतिरिक्ते(तो) धर्म एवेत्यत आह अनुगतस्येति । अनुगतो धर्मो निवक्तुमशक्य इत्यर्थः । ननु यागपाकादावनुगतं इष्टसाधनत्वमेव धर्मो निर्वक्तुं शक्यते इत्यत आह-- शक्यत्वे वेति (७८ - १० ) । चिकीर्षाविषयतावच्छेदकं रूपं यागपाकादावनुगतं यदोष्टसाधनत्वं तदा इष्टसाधनत्वज्ञानमेव प्रवर्त्तकमस्तु किमर्थं प्रवर्त्तकज्ञानमध्ये चिकीर्षाविषयत्वस्य प्रवेशः । चिकीर्षाविषयतावच्छेदकत्वेन इष्टसाधनत्वस्योपजीव्यत्वात् इष्टसाधनत्वज्ञानमेव प्रवर्त्तकमस्तु । इष्टसाधनत्वज्ञानेन विषयतावच्छेदकरूपत्वज्ञानमेव न सम्भवतीत्युपजीव्यत्वमित्यर्थः । तदिति (७८ - १०) । इष्टसाधनाज्ञानस्येत्यर्थः । परेच्छेति (७८-११) । विषाभक्षकस्य विषभक्षकेच्छा कारणीभूतज्ञानविषये विषभक्षणादौ प्रवृत्तिप्रसङ्गादित्यर्थः । न च स्वेतिविशेषणं तथा च विषाभक्षकस्य विषभक्षकस्य विषभक्षणेच्छेव नास्ति स्वेच्छामात्रकारणीभूतज्ञानविषयत्वं विषभक्षणादौ नास्तीति नातिप्रसङ्ग इत्यत आह- स्वीयेति (७८ - ११) । तथा च सति इच्छामात्र कारणीभूतं यद् ज्ञानं तदेव स्वरूपसत् इच्छाद्वारा प्रवृत्तिजनकं न तु ज्ञानविषयत्व [कं ] ज्ञानमपि प्रवृत्तिजनकं यतो ज्ञानज्ञानस्यापि प्रवर्त्त - कत्वापत्तेः । यथा रजतज्ञानं रजते प्रवर्त्तकं न तु रजतज्ञानस्यापि ज्ञानं तद्वदत्र इच्छामात्रकारणीभूतं यत् पाकादिज्ञानं तदेव स्वरूपसत् प्रवृत्तिजनकम् । न तु पाकादिज्ञानस्य तद्विषयत्वज्ञानस्य च प्रवृत्तिजनकत्वम् । अत (७८ - १२ ) इति । चिकीर्षाकारणीभूतं यद् ज्ञानं तत्स्वरूपसदेव प्रवृत्तिजनकं न तु तद्ज्ञानस्यापि ज्ञानं तद्विषयत्वस्य वा ज्ञानं प्रवृत्तिजनकमित्यर्थः । तस्यैवेति (७८-१२) । तादृशावच्छेदकरूपस्यैव यद् ज्ञानं तन्निरूपयितुमारब्धं तच्च चिकीर्षाकारणीभूतज्ञानविषयतावच्छेदकं रूपं च नास्त्येव । यदीष्टसाधनत्वादिकं तदवच्छेदकरूपं स्यात्तदा तज्ज्ञानमेव प्रवर्त्तकमास्तामिति पूर्वोक्तमेवेति भावः । स्वरूपेति (७८ - १३) । न हि पाकस्वरूपमात्रज्ञानात् पाके प्रवर्त्तते कृत्यमाध्ये समुद्रतरणादी अनिष्टसाधने विषभक्षणादौ वा स्वरूपज्ञानात् प्रवृत्तिः स्यादित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org