________________
१४२
न्यायसिद्धान्तदीपे
पाके । इच्छेति (७८ - १ ) । सुखादौ इच्छा जायते तत्कारणीभूतं ज्ञानं सुखज्ञानं तद्विषयत्वं सुखादौ तिष्ठति । चिकीर्षेति (७८ - १) । सुखादौ चिकीर्षा नास्तीति चिकीर्षापदं पार्क कृत्या साधयामीति चिकीर्षा, तत्कारणीभूतं ज्ञानं पाको मत्कृतिसाध्य इति ज्ञानं तद्विषयत्वं पाकादो वर्त्तत इत्यर्थः । चिकीर्षेति (७८-२) । चिकीर्षायाः कारणीभूतं पाको मत्कृतिसाध्य इति ज्ञानं तस्या विषयता पाकादो वर्त्तते, तस्या विषयताया अवच्छेदकं पाकत्वादिकं चिकीर्णेति कृतिजन्यत्वे सति स्वरूपं यत् पाकादिकं तज्ज्ञानमेव प्रवर्तकम् । चिकीर्षति (७८ - ४) । चिकीर्षाजन्या या कृतिः तज्जन्यत्वम् उद्देश्यत्वम् । स्वेति (७८-४) । यो विषं न भक्षयति तस्य विषमक्षणमनिष्टं भवति । यो विषं भक्षयति तस्य विषमक्षणमिष्टं भवति इतिकृत्वा विषभक्षकेच्छाविषयीभूते विषभक्षणे विष्णभक्षकस्यानिष्ठ साघनीभूते विषाभक्षकस्य विषभक्षणे प्रवृत्तिः स्यात् यथाकथञ्चिदिच्छामात्रविषयत्वं विषभक्षणेऽपि वर्त्तते । सुखेति (७८---५)। इच्छामात्रविषयता त्रिषु वर्त्तते तस्या विषयताया अवच्छेदकं सुखत्वम् दुःखाभावत्वं भोगत्वं तद्रूपवत्वं सुखादौ वर्त्तते इतिकृत्वा सुखादौ प्रवृत्तिः स्यात् सुखादीनां फलरूपत्वेन प्रवृत्तिविषयत्वाभावात् । याति (७८-६ ) | यागादावपि इच्छामात्रविषयतावच्छेदकरूपं उपायत्वं वा पाकत्वादिकं वाऽन्यद्वा । नाद्यः उपायत्वज्ञानमात्रान्न प्रवृत्तिः । अत एव न द्वितीयोऽपि पाकत्वज्ञानमात्रान्न कोऽपि प्रवर्त्ततेऽननुगमाच्च । कोदृशोऽननुगमः । पाकत्वस्य यागेऽभावात् । यागत्वस्य पाकेऽभावात् । अन्त्ये त्वाह-निर्वक्तुमशक्यत्वादिति (७८--६) । यागपाकादावनुगतम् उपायत्वातिरिक्तम् इच्छामात्रविषयताऽवच्छेदकं रूपं नास्तीत्यर्थः ।
अत्र शङ्कते न चेति - ( ७८- ६ ) इष्टत्वं नाम इच्छाविषयत्वम् उद्देश्यत्वमिति यावत् । तदवच्छेदकमिति (७८ - ६) | इच्छामात्रविषयताया या उद्देश्यता तदवच्छेदकमित्यर्थः । दूषणमाह-आत्मेति (७८- ७) । इच्छामात्रविषयताया या उद्देश्यता तदवच्छेदकम् उद्देश्यत्वम् । एवं च सति उद्देश्यताया अवच्छेदकम् उद्देश्यत्वमेव । चिकीर्षेति (७८- ७) । चिकीर्षा विषय [क]त्व ज्ञानं चेत् प्रवर्त्तकं तदा चिकीर्षाद्वारा चिकीर्षाज्ञानमेव प्रवर्त्तकमित्यागतं, न च तत् सम्भवति, चिकीर्षाविषयस्य यद् ज्ञानं तत् चिकीर्षाद्वारा प्रवर्त्तकं न तु चिकीर्षाविषयत्वेन, चिकीर्षा - विषयस्य ज्ञानं प्रवृत्तिजनकं ज्ञानचिकीर्षाकृतीनां समानप्रकारत्वेन कार्यकारणभावः, न च चिकीर्षाविषयत्वप्रकारिका किन्तु पाकत्वप्रकारिका येन चिकीर्षाविषयत्व [कं] ज्ञानं चिकीर्षाद्वारा प्रवृत्तिजनकं स्यादित्यर्थः ।
१. उद्देश्यत्वं पाकयागादौ अस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org