________________
विधिवादटिप्पनम् ।
ज्ञाने वक्त्रिच्छाज्ञानमात्रात् इच्छाज्ञानमात्राद्वा प्रवृत्तिर्दृष्टचरेत्यर्थः । ननु इष्टहेतुत्व न विध्यर्थः यतः मम पाकादिका मेष्टहेतु अतः पाकादिः कर्त्तव्य इतीष्टहेतुत्वस्य सह प्रयोगो न स्यात् तव्यप्रत्ययेनैवेष्टहेतुत्वस्य बोधितत्वात् । प्रकारान्तरेण पाके इष्टहेतुत्वे ज्ञाते मया पाकः कर्तव्य इति गुरोरभिप्रायाज्ञाने गुरुं प्रति अहं पार्क कुर्यामिति प्रश्नो न स्यात् । तदनन्तरं च भो देवदत्त ! त्वया पाकः कर्त्तव्य इति उत्तरमपि न स्यात् । इष्टहेतुत्वस्य पूर्वमेव ज्ञातत्वात् । किं च यागादौ विलम्बेन इष्टसाधनत्वस्य बोधयितुमशक्यत्वात् यागस्याशुविनाशित्वात् तस्मात् आप्ताभिप्राय एव विध्यर्थ इत्यत आह-अपि चेति (७७ - ११) । भवद्भिरिति (७७-१२) । विध्यर्थमाप्ताभिप्रायं वदद्भिरित्यर्थः । आप्ताभिप्रायस्य विध्यर्थत्वेऽपि दूषणमस्तीत्याहनूनमिति (७७ - १२) | वक्तुरभिप्रायज्ञाने स्वस्यानिष्टहेतुत्वज्ञानदशायां प्रयोज्यो न प्रवर्त्तते एतदेव प्रश्नोत्तररूपेणाह - ममेदमिति (७७ - १३) । त्वया क्रियमाणं पाकादिकं ममेष्टम् इति शब्दात् तादृशाभिप्रायज्ञानेऽपि न प्रयोज्यः प्रवर्त्तते, किन्तु प्रश्नं करोति त्वयैव कुतः पाको न क्रियते इति प्रश्नं करोति किमित्येवमिति । मया पाकः किमर्थं कर्त्तव्यः त्वयैव कुतो न क्रियते इतिप्रश्ने प्रयोजकस्योत्तरं यतस्तव प्रयोज्यस्य कृतिः ममेप्सिता इत्यनेन वक्तुरभिप्रायविशेषज्ञानेऽपि प्रयोज्यो न प्रवर्त्तते यत तद्वाक्यविषयस्य स्वस्य भयहेतुत्वे सम्भाव्यमानत्वात् प्रयोज्येन ।
अत्रापीति (७७ - १४) । ममेप्सितेति अभिप्राय विशेषप्रतिपादके वाक्येsपीत्यर्थः । वक्तुरभिप्रायो न विध्यर्थ इत्युपसंहरति- इदमपीति (७७-४४) । इदं इच्छारूपमित्यर्थः । अत्र शङ्कते न चेति (७७ - १४) । आज्ञादौ इच्छार्थत्वं क्लृप्तमिति कृत्वा पचेत इति लिङस्थलेऽपि इच्छेव लिङर्थः । तदनुरोधेनेति । ( ७७–१५) इच्छानुरोधेन । अत्रापीति (७७ - १५) लिस्थलेऽपि तथेति (७७-१५) । लिङर्थकल्पनमित्यर्थः ।
१४१
दूषणमाह - सहेति (७७ - १५) | यदीच्छा लिङर्थः तदा तव पाककृतिर्ममेप्सितेति त्वया पाकः कर्त्तव्य इति सह प्रयोगो न स्यात् । तव्यप्रत्ययेनेच्छोक्ता ईप्सिता इत्यनेनापि पदेन इच्छोक्तेति सह प्रयोगो न स्यात् । उद्देश्यतेति - (७७-१८)। इच्छाविषयत्वमित्यर्थः । इच्छामात्रेति (७७ - २२) इच्छासामान्यम् । इच्छेति- (७७२२) । इच्छामात्रविषयत्वावच्छेदकं रूपं सुखत्वादिकं । चिकीर्षेति (७७-२३) । चिकीर्षाविषयः पाकः । चिकीर्षेति अवच्छेदकरूपं पाकत्वादिकं तद्वत्त्वं वर्त्तते
१. पाके क्रियमाणे मम दक्षिणा गमिष्यतीति भयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org