________________
न्यायसिद्धान्तदीपे र्नास्ति-इतिकृत्वा स्वरूपसत्येव ज्ञाने विद्यमाने इच्छानन्तरं प्रवृत्त्या ज्ञानमपि लिङाद्यर्थः स्यात् । यतो यस्मिन् जाते प्रवृत्तिः स एव लिङाद्यर्थः तर्हि स्वरूपसति ज्ञाने जाते इच्छानन्तरं प्रवृत्त्या ज्ञानमपि लिङाधर्थः स्यात् ।
ततः किमित्यत आह-प्रवर्तकेति(७७-५)। तथा च लिङाद्यर्थत्वेन ज्ञानस्य प्रवर्तकज्ञानविषयत्वापत्तिः । यो हि लिङाद्यर्थः स एव प्रवर्तकज्ञानविषयः । तथा च ज्ञानस्य लिङर्थत्वेन प्रवर्तकज्ञानविषयत्वापत्तिः । यस्मिन् ज्ञाते इति द्वितीयपक्ष निराकरोति संकल्पस्येति(७७-६)। संकल्पस्य मानसनिश्चयरूपत्वेन चिकीर्षारूपत्वेन वा स्वरूपसत एव प्रवर्तकत्वात् संकल्पज्ञानस्याप्रवर्तकत्वेन प्रवर्तकज्ञानविषयत्वाभावेन कथं संकल्पस्य लिङर्थत्वम् इत्यर्थः । कथमिति(७७-६) संकल्पस्य स्वरूपसत एव प्रवृत्तिजनकत्वादिति । तर्हि ज्ञातः कथं प्रवृत्तिजनकः कथं विध्यर्थश्च । सप्तमस्त्विति । आधे(७७-७) इति । यदि वक्तुरभिप्रायो ज्ञानं तर्हि विधिवाक्येन वक्तृज्ञानविषयकं श्रोतुः प्रयोज्यस्योत्पादनीयं तत्कीदृशमित्याह-अग्निकामस्येति(७७-७)। अग्न्यर्थ दारुमथनं कुर्यादनेन विधिवाक्येन श्रोतुरग्निकामस्य वक्तुर्दारुमथनभावना दारुमथनार्थ मुत्साहो मया ज्ञात एतादृशं ज्ञानमुत्पाद्यम् । न चैतादृशं ज्ञानं प्रवतकमित्याह-न चेति (७७-८)। अग्निकामस्य वक्तुर्दारुमथनं इष्टहेतुः श्रोतुर्ममाऽनिष्टहेतुरिति स्वस्य दारुमथनादावनिष्टहेतुत्वज्ञानदशायां तादृशे वक्तृज्ञाने ज्ञातेऽपि न प्रयोज्यस्य प्रवृत्तिः ।।
शङ्कते न चेति(७७-८)। वक्तुरुत्साहविषयकं दारुमथन मम श्रोतुः प्रयोज्यस्येष्टहेतुः आप्तेन वक्त्रा इष्टहेतुत्वेन ज्ञायमानत्वादित्यनुमानेन दारुमथनादौ स्वेष्टसाधनतामनुमाय ततः श्रोतुः प्रयोज्यस्य प्रवृत्तिरित्यर्थः । अनेनेति(७७ -९) हेतुनेत्यर्थः । हेतुः कीदृशः ? आप्तेन वक्त्रा इष्टहेतुत्वेन ज्ञायमानत्वादिति । व्यभिचारिहेतुरित्याह-अनिष्टेति(७७-९) । प्रतिपुरुषं प्रकृतिवैचित्र्यान्ममाऽनिष्टहेतु यत् तदपि वक्तुरिष्टहेतुर्भवतीति कृत्वा तदपि आप्तेन वक्त्रा स्वेष्टहेतुत्वेन ज्ञायमान भवति, न च तन्मदिष्टहेतुरिति व्यभिचार इत्यर्थः । तस्मादनेनानुमानेन स्वेष्टसाधनत्वमनुमातुं न शक्यते । वस्तुतस्तु प्रवृत्त्यर्थं स्वेष्टहेतुत्वज्ञानस्यापेक्षणे इष्टसाधनत्वमेव विध्यर्थः स्यान्न तु माप्ताभिप्राय इति सारम् ।
द्वितीय इच्छारूपमाप्ताभिप्रायं दूषयति-सेति(७७-१०)। विध्यर्थरूपा या आप्ताऽभिप्रायलक्षणेच्छा सा वक्तृविशेषिता वक्तुरिच्छा किंवा अविशेषिता इच्छामात्र वा । उभयथाऽपीति(७७-१०)। न हि कुत्रापि प्रयोज्यस्येष्टहेतुत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org