________________
Ca
विधिवादटिप्पनम् । यत्र कामिनीसम्भोगादौ परोपदेष्टा नास्ति तत्र या प्रवृत्तिः सा स्वप्रवृत्तिस्तस्यां यद्धेतुत्वेनावगतमहं कामिन्या सह भोगं कुर्यामिति मानसनिश्चयरूपं ज्ञानं सत्कामिनीसम्भोगादौ प्रवृत्तिहेतुत्वेन निश्चितमतः परप्रवृत्ती परकीयशब्दात् स्वस्य पाकादिप्रवृत्तौ तदेव संकल्परूपमेव प्रवृत्तिहेतुत्वेनाऽनुमिनुयादिति वस्तुगत्यभिप्रायेण ।
ननु तदनुमानं प्रवर्तकमनुमानं यथा परशब्दात् या प्रवृत्तिः सा सङ्कल्पजन्या प्रवृत्तित्वात् शब्दानपेक्षस्वारसिकसम्भोगादिप्रवृत्तिवदिति । अथवा संकल्पज्ञानस्य प्रवर्तकत्वे संकल्पानुमानरूपं तज्ज्ञानं परप्रवृत्ती प्रवर्तकमस्तीत्यर्थः । एतदेव विवृणोति । स्वप्रवृत्ताविति(७६-२२)। कामिनीभोगादौ प्रवृत्तौ इष्टोपायलक्षणं कामिनीसंसर्गादिक कुर्यामिति संकल्पस्य हेतुत्वं निश्चितम् । ननु संकल्पश्चेत् हितोपायताविषयकस्तर्हि हितोपायताज्ञानमेव प्रवर्तकमास्तामित्यत आह-संकल्पमिति(७६-२४)। यत्र कृतिसाध्यतासन्देहो नदीतरणादावस्ति तत्र हितोपायताऽनुसन्धाने इष्टोपायतानुसन्धाने विद्यमानेऽपि अहं बाहुभ्यां नदीतरणं कुर्यामिति निश्चयाभावात् नदीतरणादौ न प्रवृत्तिरतः संकल्प एव प्रवर्तक इत्यर्थः । आवश्यकत्वादिति(७७-१)। पूर्वोक्तयुक्तेरिति भावः । बाहुभ्यां नदीतरणे इष्टोपा यत्वज्ञाने विद्यमानेऽपि संकल्प विना प्रवृत्तेरभावात् संकल्पस्यावश्यकत्वादित्यर्थः । एवं सति किमित्यत आह-शब्दजायामिति(७७-१) । गुर्वादिशब्देन यत्र स्वस्य प्रवृत्तिर्जायते तत्रापि संकल्पज्ञानस्य हेतुत्वम् । अनुमिनो तीति(७७-१)। अनुमिनुयादित्यत्र व्याख्यातम् । स एवेति(७७-२) संकल्प इत्यर्थः । तन्नेति(७७-२) । अहं कुर्यामिति कृतिसाध्यत्वनिश्चयो वा कृत्या साधयामि इति, चिकीर्षारूपो वा, अन्यद्वा । नाद्यः, कृति साध्यत्वनिश्चय एव प्रवर्तक इति प्राभाकरमतनिराकरणेनैव अग्रेऽत्र वादे निराकरणात् । न द्वितीय इत्याह-संकल्पस्येति(७७-२) तद्विशेषचिकीर्षाविषयत्वज्ञानं प्रवर्तकमित्यत्र यो दोषस्तदोषाकुलत्वादित्यर्थः । नान्त्य इत्याह-अतिरिक्त(७७-३) इति संकल्पः इच्छाव्यतिरिक्तः पदार्थो नास्ति ।
ननु यद्विषयक ज्ञाने यागादौ प्रवृत्तिः यस्मिश्चासति न प्रवृत्तिः तादृशज्ञानविषय एव लिङाद्यर्थ इत्यत आह -किञ्चेदमिति(७७-४) । यस्मिन्निति(७७-४) यस्मिन् जात(७७-४) इति स्वरूप मत् विवक्षितं तदा च स्वरूपसति यस्मिन् विद्यमाने प्रवृत्तिरित्यर्थः : यथा आलोकः चाक्षुषबोधे स्वरूपसन्नेव कारणं न तु ज्ञातः एवं स्वरूपसन्नेव संकल्पः प्रवर्तकः न ज्ञातः । यस्मिन् ज्ञात(७७-४) इति । यद्विषयके ज्ञाने जाते प्रवृत्तिः तद्ज्ञानविषये वा लिङाद्यर्थः । दूषयति आधे(७७-५) इति । एवं सति जानाति इच्छति प्रयतते । ज्ञानेन विना इच्छा नास्ति । इच्छां विना प्रवृत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org