________________
११३८
न्यायसिद्धान्तदीपे प्रवृत्तिः, कुत्रचित् अध्येषणामात्रेण, यत्र गुर्वादीनामाज्ञाऽपि नास्ति अध्येषणाऽपि नास्ति तत्र प्रतिपाद्यस्य शिष्यस्य गुरोरेतत्फलविषयिणी इच्छा वर्तते तत्र वक्तृफलेच्छाज्ञानस्य सत्त्वेऽपि न तेत् प्रवर्तकम्-इति व्यभिचारात् आज्ञाऽपि अप्रवर्तिका, अध्येषणाऽप्यप्रवर्तिका वक्तृफलेच्छाविषयत्वज्ञानमप्यप्रवर्तकम् इति नियमो नास्तिइतिकृत्वाऽनुगतं प्रवत्तकं किञ्चिद् वक्तव्यम् । तच्च नास्ति । प्रतिपाधेति(७६-१५) प्रतिपाद्यस्य शिष्यस्य ये विशेषणगुणा बुद्धयादयः ते मनसा गृह्यन्ते इतिकृत्वा प्रतिपाद्यस्य या फलेच्छा सा मनसः प्रत्यक्षा इतिकृत्वा स्वफलेच्छाबोधार्थ वक्तृशब्दानपेक्षणादित्यर्थः । तद्बोधकेति(७६-१६)। प्रतिपाद्यफळेच्छाबोधकशब्दस्येत्यर्थः ।
दूषणान्तरमाह-असत्याश्चेति(७६-१६)। आदी ज्ञानं तदनन्तरं प्रतिपाधस्य इच्छा तदनन्तरं प्रवृत्तिः एवं सति ज्ञानात् इच्छति प्रयतते । न च ज्ञानात् पूर्वम् इच्छास्ति इतिकृत्वा स्वज्ञानेन यत्र प्रवृत्तिर्जायते तत्र प्रतिपाद्यफलेच्छा नास्ति, यः प्रवर्त्तते स प्रतिपाद्य एव न भवति, स्वज्ञानमात्रादेव कामिनीसम्भोगादौ प्रवर्ततेइतिकृत्वा कामिनीसम्भोगकर्तुः प्रतिपाद्यत्वमेव नास्ति । तथा च प्रतिपाद्यफलेच्छाविषयत्वं न प्रवर्तकम् ।
फलविषयिणी या इच्छा तद्विषयत्वज्ञानस्य प्रवर्तकत्वं निरस्य धात्वर्थविषयिणी या इच्छा तद्विषयत्वज्ञानस्य प्रवर्तकत्वं निरस्यति नाऽपीति(७६-१७) । धात्वर्थविषयिणी या इच्छा तद्गोचरत्वं यागादेरित्यर्थः । प्रतिपाद्याऽभिप्रायेणाह-धात्वर्थस्येति(७६-१७) । तथाच यागस्य स्वर्गसाधनत्वाज्ञाने प्रतिपाद्यस्येच्छाविषयत्वज्ञाने विद्यमानेऽपि न प्रतिपाधो यागादौ प्रवर्तते । प्रयोज्येति प्रतिपाद्यस्य नाम । प्रतिपादकेच्छाऽभिप्रायेणाह-प्रतिपादकेति(७६-१८)। यत्र प्रतिपादकस्य यागविषयिणी इच्छा वर्त्तते नियोज्यस्य नास्ति तत्र नियोज्यस्य यागे प्रतिपादकेच्छ। विषयत्वज्ञाने विद्यमानेऽपि नियोज्यो न प्रवर्तते । न तृतीय(७६-२०) इति । यस्य कस्येति पक्ष इत्यर्थः । अतिप्रसङ्गादिति(७६-२०) आत्मघातकस्य विषभक्षणादो इच्छाविषयत्वज्ञाने विद्यमाने अनात्मघातकस्यापि विषभक्षणादौ प्रवृत्त्यापत्तेः । एतावता इच्छामात्रविषयत्वमिति प्रथमपक्ष निराकृत्य तद्विशेषचिकीर्षा विषयत्वपक्षं निराकरोति । द्वितीयोऽपि नेति (७६ २०) इच्छाविशेषचिकीर्षेति यो द्वितीयः पक्षः सोऽपि नेत्यर्थः ।
___ दूषणमाह-उक्तेति(७६-२०) । अत्रापि । प्रतिपाद्यस्य वा प्रतिपादकस्य वा यस्य कस्याऽपि वेत्य दिना दूषणानामुक्तप्रायत्वादित्यर्थः । संकल्प(७६-२२) इति । मानसो निश्चयः । संकल्पस्य प्रवर्तकत्वे साधकमाह-स्वप्रवृत्ताविति(७६-२२)।
१. वक्तृफलेच्छा ज्ञानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org