________________
१३७
विधिवादटिप्पनम् । चासिद्धतया कृतिविषयत्वाभावादित्यर्थः । फलं स्वर्गः स चासिद्धस्तस्य कृतिविषयत्वं नास्ति, व्युत्पाद्यत्वादिति इदं सर्वम् अग्रे निरूपणोयमस्ति ।
किञ्च स्वर्गत्वविशिष्टं स्वर्गसामान्यज्ञानं वा प्रवर्तकं स्वर्गत्वविशिष्टस्वर्गविशेषज्ञानं वा । आधे स्वर्गादिज्ञानेऽपीत्यनेनोक्तोत्तरत्वात् । न हि स्वर्गत्वविशिष्टस्वर्गसामान्यज्ञाने स्वर्गविशेषजनके यागादौ नियमेन प्रवर्तते । नान्त्य इत्याहअननुगमादिति(७६-७)। तथाच विध्यर्थः अननुगत एव स्यात् । कुत्रचिदुपलक्ष्य ताऽवच्छेदकः कश्चित् स्वर्गविशेषः कुत्रचिदन्यः स्वर्गविशेष इतिकृत्वा स्वर्गविशेष उपलक्ष्यतावच्छेदको न भवति । उपलक्ष्यं चेत् यागादिकम् तत्र उपलक्ष्यतावच्छेदकं यत् चिकीर्षाजनकज्ञानविषयत्वं सदभिप्रायेणाह-न द्वितीय(७६-७) इति । यथा कारणतावच्छेदकज्ञानं विना कारणता गृहीतुं न शक्यते एवं चिकीर्षाजनकज्ञानविषयतावच्छेदकग्रहं विना चिकीर्षाजनकज्ञानविषयता निरूपयितुं न शक्यते । तञ्च चिकीर्षाननकज्ञानविषयतावच्छेदकं यदीष्टसाधनत्वादिकं तदा तदेव प्रवर्तकमास्तां निरूप्यमाणत्वादिति । स चिकीर्षाजनकज्ञानविषयतावच्छेदको धर्मोऽवश्यं निरूपणीय इत्यर्थः । स च नास्त्येवेति भावः । ननु इष्टत्वज्ञानं चिकीर्षाद्वारा प्रवर्तकम् । चिकीर्षायां तु इष्टसाधनताज्ञानम्, उपादानप्रत्यक्षं च कारणम् । एवं सति न कोऽपि दोष इत्यरुचेराह-इष्टत्वेति(७६-९)।
__ अत्र शङ्कते साध्यत्वेति(७६-९)। एवं च कृतिसाध्यत्वे सति इच्छाविषयत्वं ज्ञान प्रवर्तकं, सागरमणिग्रहणं तु कृतिसाध्यं न भवतीति कृत्वा कृतिसाध्यत्वविशिष्टेच्छाविषयत्वं सागरमणौ नास्तीति कृत्वा न प्रवृत्तिरित्यर्थः । दूषयति-साध्यतेति(७६-१०)। तदेव कृतिसाध्यं यदिष्टसाधनमिति कृत्वा यदि साध्यताज्ञानमपेक्षितम् तदा इष्टसाधनताज्ञानमपेक्षितमेव । ततः किमित्यत आह—हितेति(७६१०)। हितम् इष्टं तत्साधनताज्ञानमेव प्रवत्तकमित्यर्थः।।
___ ननु कृतिसाध्यताज्ञाने इष्टसाधनताज्ञानं नापेक्षित तेन विनाऽपि विषभक्षणादौ कृतिसाध्यताज्ञानादित्यरुचेराह -किच्चेति(७६-१२) । तद्विशेषः इच्छाविशेषः । साऽपीति(७६-१३) । इष्टत्वे उपलक्षणभूता या इच्छेत्यर्थः। सा इच्छा फलस्य स्वर्गादेः धात्वर्थस्य यागादेः । साऽपीति फलविषयिणीत्यर्थः । वक्तुरिति (७६-१३)। प्रतिपाद्यस्य स्वप्रवृत्तौ वक्तुर्या फलेच्छा तज्ज्ञानं चेत् कारणं तदा प्रतिपाद्यस्य वक्तृफलेच्छाज्ञानव्यतिरेकेणापि आज्ञामात्रेण अध्येषणामात्रेण च यत्र प्रवृत्तिः तत्र तस्य वक्तृफलेच्छाज्ञानस्य व्यभिचारेण वक्तृफलेच्छाविषयत्वज्ञानस्याप्रवर्तकत्वात् । तदेवाह-आज्ञेति(७६-१४)। आज्ञाऽध्येषणातिरिक्ताया इति तन्मात्रया इत्यर्थः । एवं च सति कुत्रचित् आज्ञामात्रेण प्रतिपाद्यस्य
१. इष्टसाधनताज्ञानेन विना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org