________________
न्यायसिद्धान्तदीपे मानाभावात् इत्यन्यत्र विस्तरः । नाद्य इत्याह भावनेति(७५-२४) । भावना कृतिरूपा कृतिज्ञानं कृतावजनकम् । वक्ष्यमाणेष्टसाधनताज्ञानं प्रवर्तकमिति । विवृणोति स्वर्गेति (७५-२५) । अधिकस्येति(७५-२५) । अंशत्रयवती भावना या इत्यर्थः । ननु इष्टसाधनताविशिष्टा या भावना तज्ज्ञानं प्रवर्तकमस्तु लिङ्प्रत्ययस्य इष्टसाधनत्वेऽप्यौपसन्दा(न्धा)निकी शक्तिरित्यत आह-एवमिति(७६-१)। आख्यातार्थो भावना तद्ज्ञानं प्रवर्तकमिति पूर्व प्रतिज्ञातम् इदानीं तदन्यथात्वे इष्टसाधनताविशेषितभावनाज्ञानस्य प्रवर्तकत्वे । प्रतिज्ञान्तरापातो ७६-१) नाम निग्रहस्थानमित्यर्थः । सिद्धं नः समीहितमित्याह-हितेति (७६-१) । इष्टसाधनत्वमित्यर्थः । इष्टसाधनत्वमेव विध्यर्थ इति न्यायमतम् । इच्छेति(७६-२) इच्छा स्वरूपसती प्रवृत्तिजनिका न तु तद्ज्ञानं ।
ननु वस्तुत इच्छा विषयस्तद्ज्ञानं प्रवर्तकं न तु इच्छाज्ञानमित्यरुचेराहकिञ्चेति(७६-३)। इष्टत्वं नाम इच्छाविषयत्वम् तत्र विकल्प्य दूषयति इच्छेति(७६-३) । इच्छाविषये स्वर्गादौ इच्छा विशेषणमुपलक्षणं वेत्यर्थः । तत्र विद्यमानं विशेषणम् , अविद्यमानमुपलक्षणम् । इच्छायामपीति(७६-३) । प्रवृत्तिस्तु इच्छाविषये जायते । एवं सति इच्छाविषयत्वम् इच्छाविशिष्टे विषये प्रवर्तकं । विशिष्टं च विषयः इच्छा च । एवं सति इच्छा इच्छायां प्रवर्तिका स्यादित्यर्थः । यथा दण्डस्य करणता घटजनककाष्ठत्वेन, घटजनककाष्ठत्वे दण्डस्य घटकारणत्वे घटस्य घटे कारणत्वं स्यात् । तद्वत् इच्छाविशिष्टम् इच्छाविशिष्टे प्रवर्तकमित्युक्ते विशेषणस्येच्छारूपत्वात् इच्छा इच्छायां प्रवर्तिकेत्यापन्नम् । उपलक्षणपक्षं निराकरोति-न द्वितीय(७६-४) इति । उपलक्ष्येति(७६-४) । इच्छा उपलक्षणम् । इच्छाविषयः उपलक्ष्यं तस्मिन्नुपलक्ष्ये किमवच्छेदकमित्याह -सुखत्वादीति'(७६-५)। उपलक्ष्यं तु द्विविधम् । एकं स्वर्गादिकमपरं चिकीर्षा जनकज्ञानविषयं यागादिकम् । आये त्वाह स्वर्गादीति(७६-५) । उपलक्ष्यतावच्छेदकं तद्विशिष्टज्ञानं चेत् प्रवर्तकं तदा सुखत्वरूपं यत् स्वर्गत्वं तद्विशिष्टज्ञानस्य प्रवर्तकत्वमित्यागतम् । एवं च सति स्वर्गासाधनं याग इति भ्रमवतः स्वर्गत्वविशिष्टे स्वर्गज्ञानेऽपि यागे न प्रवर्तते । एतावता स्वर्गज्ञानं प्रवर्तकं न भवति किन्तु स्वर्गसाधनज्ञानं प्रवर्तकम् । किञ्च स्वर्गज्ञानं यागे वा प्रवर्तकं स्वर्गे वा प्रवर्तकं, नाद्यः, भिन्नविषयत्वात् स्वर्गविषयकं ज्ञानं यागे कथं प्रवर्तकम् । नान्त्यः इत्याह फलस्येति(७६-६)। सिद्धविषयणी कृतिरसिद्धमुत्पादयति फलस्य
9. Here it seems that Gunaratna foliows the M, reading see, note no 2, p. 76
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org