________________
विधिवादटिप्पनम् ।
१३९ लकारार्थः । फलानुकूलो व्यापारो धात्वर्थ इति धातुयोगः सार्थक एव । दूषयति विकल्पेति(७५- ८) । न द्वितीय(५५-११) इति । यदि सर्वलकारार्थः पाकादिफलविशेषस्तहिं यजते इत्युक्ते यागादिफलविशेषस्य लाभो न स्यात् । कुतः । सर्वलकाराणां पाकादि फलविशेषवाचकत्वात् । प्रत्ययार्थ विकल्प्य धात्वर्थमपि विकल्पयति । धातोस्त्विति(७५-१२) । फलमात्रं फलसामान्यं दूषयति । नोभाविति(७५-१३) तथाच फलानुकूलो व्यापार इत्यत्र फलस्यावश्यं प्रवेशात् उपजीव्यत्वेन फले एव धातोः शक्तिरस्तु नतु फलानुकूलव्यापारः । दूषणान्तरमाह-यथेति(७५-१४) । यदि फलानुकूलव्यापारो धात्वर्थस्तर्हि काष्ठेन पचतीत्यत्र पाकफलानुकूलं यथा काष्ठं तथा पाकोऽपि भवतीति कृत्वा पाकेन पचतीत्यपि प्रयोगः स्यात् ।
चतुर्थ पक्षं दूषयति । अस्त्विति(७५-१६) । नियोज्येति(७५--१६) नियोज्यस्य यागकर्तुः प्रयोजनं फलं लिङभिहित इति । एवं सति अर्थभावनायाः भाव्येन सहान्वयः, भाव्यं तु स्वर्गादिकमेव प्रयोजनं एवं सति स्वर्गकामपदसमभिव्याहारात् यागेन स्वर्ग भावयेदिति भाव्यसमन्वितभावनाज्ञानमेव प्रवर्तकमित्यर्थः । अत्राशङ्कते । न चेति(७५-१९)। यजेतेत्यत्र यजिपदार्थो यागः लिङ● भावना। सा भावना प्रकृत्यर्द्ध(थ) एवान्तरङ्गतयाऽन्वेति । का अन्तरङ्गता नाम प्रत्ययानां, प्रत्ययं प्रकृत्युपरि वर्तते, न तु स्वर्गपदोपरि इति कृत्वा प्रकृत्यान्वितस्वार्थबोधकत्वम् । एवं सति यागस्य भावनाविषयत्वात् स्वर्गस्य बहिरङ्गत्वात् भावनाविषयत्वं नास्तीत्यर्थः । साध्येति(७५-१९) । साध्यं यागः साधनं भावना, प्रकृत्यर्थ एवान्तरङ्गः, स्वर्गस्तु बहिरङ्गः, कुतः ? अप्रकृत्यर्थत्वात् ।।
इष्टापत्त्या परिहरति । ग्राममिति(७५-२१)। ग्रामं गच्छतीत्यादौ अन्तरङ्गतया गमनस्य भाव्यत्वे यथा ग्रामसंयोगस्य फलत्वम् तथाच ग्रामसंयोगफलिका गमनभावना । एवं अन्तरङ्गतया यागस्य भाव्यत्वे स्वर्गस्यैव फलत्वं स्वर्गफलत्वेन विना यागस्य भाव्यत्वानुपपत्तेरिनि स्वर्गफलिका यागभावना तज्ज्ञानमेव प्रवर्तकमिति समुदायार्थः । तथाचेति(७५-२२) । स्वर्गः फलं यस्य एवम्भूतो यो यागः तज्जनिका या यागभावना तदज्ञानमेव यागे प्रवर्तकम् । वाक्यार्थेति(७५-२३) । यजेत इत्यत्र स्वर्गपदसमभिव्याहारात् स्वर्गफलिका यागभावनेत्यर्थः । भवतीति(७५-२३) । स्वर्गकामस्य यागे प्रवृत्तिर्भवतीत्यर्थः ।
___दूषयति भावनेति(७५-२४) । भावना किं आत्मविशेषगुणः कृतिस्तद्रूपा अथवा किं केन कथमिति अंशत्रयवती प्रेरणारूपा पदार्थान्तरं वा । नान्त्यः वक्ष्यमाणेष्टसाधनताज्ञानस्यैव प्रवर्तकत्वे तादृशांशत्रयवती या भावना तद्ज्ञानस्य प्रवर्तकत्वे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org