________________
न्यायसिद्धान्तदीपे अत्राशङ्कते । ने चेति(७४-२३)। तथा च सर्वेषां लकाराणां व्यापारादिकमेवार्थोऽस्तु कृतिस्तु लिङर्थ एव । एवं च सत्यसाधारणं स्यादित्यर्थः । समाधत्ते भिन्नेति(७४-२३)। तथाच यदि आख्यातार्थः कृतिन भवति तदा पचतीत्युक्ते पाकं करोति । अपाचोत्युक्ते पाकं कृतवान् इति आख्यातार्थस्य कृतिरूपेण विवरण न स्यात् । ननु पाककाल एव सर्वलकारार्थोऽस्तु इत्यत आह-भिन्नसमयेति(७४-२३)। तथाच सर्वेषां लकाराणां न एकः कालोऽर्थः किन्तु लडा दयो भिन्नभिन्नकाल एवानुशिष्टाः इतिकृत्वा आख्यातार्थः कृतिरेव ।
अत्राशङ्कते न चेति(७४ २४)। तथा च सर्वलकारार्थों व्यापारः कृतिस्तु लिङर्थ इति सिद्धमसाधारण्यं व्यापारमात्रं जलाहरणादिकमपि भवति तत्रापि पचतीति प्रयोगः स्यादित्यत आह-फलानुकूलेति(७४-२४) । तथाच जलाहरणं तु विक्लित्तिरूपफलानुकूलो व्यापारो न भवतीति नातिप्रसङ्गः । नन्वेवं सति पचतीत्यादौ कृतिबोधो न स्यादित्यत आह-कृतिरपीति(७१-२५)। तथाच कृत्याश्रय-]रूपेगैवाख्यातार्थः नतु कृतित्वेन । दूषयति नियमत(७४ -२५) इति । तथाच पचतीत्युक्ते पाकानुकूलव्यापारवानित्येव व्याकारो विवरणं स्यात् । न तु पाकानुकूलकृतिमानिति । कृतित्वेन व्याकारो न स्यादित्यर्थः ।
दूषणान्तरमाह-गृहकन्दरेति(७५-१) । तथा च गृहं कृतं कन्दरा अकृता इति व्यवहारो न स्यात् । अनुकूलव्यापारविषयत्वस्योभयत्राविशिष्टत्वात् । अत्राशङ्कते-न चेति(७५-२)। यदि आख्यातार्थः कृतिस्तदा रथो गच्छतोत्यादौ गमनानुकूला कृतिः रथे रथो गच्छतीत्यादावनन्वयः स्यात् । व्यापारस्याख्यातार्थत्वं रथो गच्छतीत्यादौ गमनानुकूलव्यापारत्वं वर्त्तत एवेत्यर्थः । दूषयति । काकेभ्य(७५-३) इति । तथाच काकपदं लक्षणया उपघातपरम् एवं रथो गच्छतीत्यादी कृतिरूपोऽर्थों यत्र न सम्भवति तत्र व्यापार एवार्थः लक्षणयाऽन्यत्र पचतीत्यादौ कृतिरूपः शक्य एवार्थः ।
अत्राशङ्कते न चेति(७५-६) । तथा चाख्यातार्थः अनुकूलत्वम् । यत्र पचतीत्यादी कृतिबुध्यते तत्रानुकूलेन कृतिरनुमीयते अत एव कृतिरूपेण व्याकारो विवरणमुपपद्यते । लडे ति(७५-६) लकारार्थः । दूषयति अनुकूलेति(७५-६)। यदि व्यापारमात्रं लडर्थः तर्हि पचतीत्यादौ कृति बोधो न स्यात् । अनुकूलेन कृतिरनुमातुं न शक्यते । अनुकूलत्वस्य यत्र कृतिर्नास्ति रथादौ तत्र सत्त्वेन कृतिव्यभिचारित्वादित्यर्थः । अत्राशङ्कते न चेति(७५ -७) । एवं सति लिङर्थः कृतिः सर्वलकारार्थस्तु फलम् एवं सति लिङर्थः कृतिरित्य साधारण्यं स्यादित्यर्थः ।
ननु फलं धात्वर्थः । स चेल्लकारार्थस्तदा धातोरनन्वय एव स्यात्तदा धातुयोगो व्यर्थ इत्यत आह-धातोरिति(७५-८)। तदिति फलानुकूलेत्यर्थः । एवं सति फलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org