________________
विधिवादटिप्पनम् ।
१३३ शब्दशक्तिरित्यर्थः । भावनेति(७४-११) कृतिरित्यर्थः । सैवेति(७४–१२) । सा भावना भाव्यफलावच्छिन्ना प्रवर्त्तिका इत्यर्थः । नियोज्यस्य यत् प्रयोजनं तदेव फलं भाव्यं यस्याः सेत्यक्षरार्थः । इष्टत्वमिति(७४-१२)। इच्छाविषयत्वं संकल्प इति । अहं पाकं कुर्यामिति निश्चयः । वक्त्रिति(७४-१२)। वक्तुराप्तस्याभिप्रायः । कार्यतेति(७४-१३)। मम कार्यमिदमिति । इष्टेति(७४-१३) । ममेदं इष्टसाधनमिति । अश्नुतेति (७४-१५) : यत्र वाक्यं नास्ति । तत्रापि कामिनीसम्भोगादौ स्वेष्टसाधनताज्ञानात् प्रवर्त्तते । किञ्च प्रवृत्तिपरशब्दत्वमेतस्यार्थः । कः प्रवृत्तिपरशब्दः किं स्वज्ञानद्वारा प्रवत्तयति वा किंवा प्रवृत्तिपरशब्दत्वप्रकारकं ज्ञानं वा प्रवर्तकम् । आये बधिरस्यापि प्रवृत्तः । अन्त्ये त्वाह अग्निष्टोमादीति(७४-१६) । अग्निष्टोमवाक्यजन्ये ज्ञाने प्रवृत्तिपरशब्दत्वं प्रकारो नास्ति । त्वया प्रवर्तितव्यम् इति] अयं प्रवृत्तिपरः शब्दः प्रकारः अग्निष्टोमवाक्यजन्ये ज्ञाने नास्ति । अभिधायाः (७४-१७) इति । अभिधा वाच्यवाचकभावातिरिक्तादर्थान्तरं लिशक्तिः अथवा वाच्यवाचकभावरूपा । नान्यः । तस्या वाच्यवाचकाभावरूपाया अभिधायाः पदार्थस्मृतिमात्रहेतुत्वात् । नाद्य इत्याह-भिन्नेति(७४-१८) वाच्यवाचकभावरूपैव अभिधा वर्तते तदतिरिक्ता नास्ति । भावनेति(७४-१९)। भावना कृतिः । कृतिज्ञानं चेत् प्रवर्तकम् तदा पचतीत्यादावपि प्रवृत्तिः स्यात् । लडादावपि आख्यातार्थः कृतिरेव । एतदेवं मनसि कृत्य दूषणान्तरमाह-तस्याः (७४-१९) इति । तस्याः कृतेः सर्वलकारवाच्यत्वात् । एवं च इतरलकारार्थापेक्षया लिङर्थस्य वैलक्षण्यं न स्यादित्यर्थः ।।
अत्राऽऽशङ्कते । न चेति(७४-२०) कृतिराख्यातार्थो न भवति किन्त संख्या एकत्वादिरूपा । स आख्यातार्थः । अन्यथा करोतीत्युक्ते कृञ् धातोरर्थः तिवर्थोऽपि कृतिः, न च कृति विषया कृतिरिति तथा चानन्वय एव स्यादित्यर्थः । ननु कृतिगोचराऽपि कृतिरस्तीत्यत आह-सजातीयेति(७४-२०)। प्रयत्नादिविशेषगुणानां स्वसमानजातीयस्यानारम्भकत्वस्योक्तत्वात् तथाच कृतिगोचरा कृतिर्नास्ति । तथाच आख्यातार्थः संख्यैव । एवं सति कृत्याश्रय एक इति अन्वयो भविष्यति । दूषयति आख्यातेति(७४-२१) । करोतीत्युक्ते धातोरर्थः कृतिः आख्यातार्थः संख्या । एवं च सति कृतिगता संख्या न बोध्यते किन्तु कृत्यनुकूलगता कृत्याश्रयगता वा संख्या बोध्यते । एवं सति अनुकूलत्वमाश्रयत्वम् आख्यातस्य लाक्षणिकोऽर्थोऽस्तु, संख्या तु वचनस्यैवार्थोऽस्त्वित्यर्थः । तथाच एवं सति कृञ्धातुना कतिरुक्ता तिपाऽनुकूलत्वं तथाच कृत्यनुकूलवान् [इति] अयमन्वयः सुकर एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org