________________
१३२
न्यायसिद्धान्तदीपे किमपि नास्ति, चक्षुरादीनां शब्दप्रयोगात् पूर्वमपि स्थितत्वात् , पचेतेति वाक्यानन्तरमुत्पद्यमानत्वात् तज्ज्ञानं प्रति पचेतेति वाकयमेव कारणत्वेनावधारयति । तर्कसहकृतान्वयव्यतिरेकाभ्यां तद्वाकंच किं पचेतेति ? इदमेव कारण प्रवर्तकज्ञानं प्रति । अयं शक्तिग्रहप्रकारः ।
अक्षरयोजना तु प्रवृत्तिपरवाक्येति(७४-१)। पचेतेति वाक्यश्रवणानन्तरं प्रयोज्यस्य शिष्यस्य तत्तदोस्तण्डुलादयस्तैः सम्बद्धो यो व्यापारः तत्तत्पदार्थसंयोगस्तदनुकूला या क्रिया चेष्टा तां चेष्टाम् उपलभ्य तटस्थः तस्यां चेष्टायां कृतेः कारणत्वमवधारयति । तत्र दृष्टान्तमह ---स्वचेष्टायामिति(७४-२)। इयं चेष्टारूपा क्रिया कृतिजन्या क्रियात्वात् स्वचेष्टावत् । कृतावपि चिकीर्षाजन्यत्वमाह-कृताविति(७४-२)।
चिकीर्षायां ज्ञानजन्यत्वमाह. दृष्टान्तस्तु स्वचिकीर्षावत् । तच्च ज्ञानं कीदृशमित्याह-समानाधिकरणेति(७४-२)। व्यधिकरणस्य भिन्नविषयकज्ञानस्य इच्छां प्रत्यजनकत्वात् । अवधृतकारणभाव इति तटस्थस्य विशेषणं स्वज्ञानकृतिचेष्टास्थले इति यावत् । स्वदृष्टान्तेन प्रयोज्येऽपि आनयति । ज्ञानमनुमिनोति प्रयोज्यस्यापीति (७४-३)। ततः किमित्याह । तस्य चेति(७४-४)। प्रवर्तकज्ञानस्य वाक्यजन्यताम् अवधारयति वाक्येन साक्षात्प्रवृत्तिर्न क्रियते इति कृत्वा व्यापारमाह-शब्दव्यापारत्वमिति(७४-४) । तदा चायमर्थः । इयं प्रयोज्यस्य या प्रवृत्तिः सा अनेन वाकयेन ज्ञानद्वारा कृता । तस्य वाकयजन्यज्ञानस्य या जनकता सा विषयप्रकारावच्छेद्या, ज्ञाने कश्चन प्रकारो वक्तव्य इति निर्विकल्पकज्ञानस्य प्रवृत्तावजनकत्वात् इति तर्कबलमाहविश्राम्यतीति(७४-६)। एतावता ज्ञानत्वमात्रं प्रवृत्तिजनकतावच्छेदकं न भवति किन्तु विषयप्रकारावच्छिन्नज्ञानत्वमेवेत्यर्थः । तस्य प्रवर्तकज्ञानस्य प्रवृत्तिजनकतावच्छे. दको यो विषयः स एव ज्ञानकर्मविधिरिति पर्यवसितम् ।।
प्रवृत्तिजनकज्ञाने जनकतावच्छेदको यो विषयः स एव विधिरित्यत्र सम्मति माह-तदुक्तमिति(७४-८)। सेति(७४-९) कृतरित्यर्थः । यतश्च सेति(७४-९)। सा चिकीरेत्यर्थः । यच्छशब्दार्थमाह -- तद् ज्ञानमिति(७४-१०) । चिकीर्षाजनकज्ञानमित्यर्थः । तस्य ज्ञानस्य प्रवृत्तिजनकतावच्छेदको यो विषयः स विधिरित्यर्थः । अविषयरूपस्यापि विधित्वमाह-तद्द्वापकेति(७४-१०) । तथाच तादृशविषयज्ञापकः सोऽपि वा विधिः लिशक्तयादिरूपः स विधिः ।
विधिस्वरूपं विप्रतिपत्त्या विवेचयति । प्रवृत्तीति(७४-११)। प्रवृत्तिपरः शब्दः पचेतेत्यादिरूपः । तदिति(७४-११) प्रवृत्तिपरशब्द इत्यर्थः । तस्याऽभिधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org