________________
गुणरत्नगणिविरचितम् न्यायसिद्धान्तदीपटिप्पनम् ।
विधिवादटिप्पनम् ।। आचारस्य मूलं प्रवर्तकज्ञानम् । तस्य ज्ञानस्य विषयं निरूपयितुं भूमिमारचयति । ननु व्यभिचारज्ञानाभावसह कृतं सहचारज्ञानं न व्याप्तिग्राहकं यतः सहचारदर्शनाभावेऽपि स्तनपानेष्टसाधनत्वयोाप्तिग्रहे सति इष्टसाधनत्वानुमित्या बालः स्तनपाने प्रवर्तते । न चेष्टसाधनताज्ञानं न प्रवर्तकमिति वाच्यम् । भावनादीनामप्रवर्तकत्वात् तदेवेष्टसाधनताज्ञान प्रवर्तकमित्युपोद्घातसङ्गत्या आह-प्रवृत्तीति (पृ.७४६.१) । तत्र च विधिज्ञानमेव प्रवर्तकम् । तस्य ज्ञानस्य विषयो यो विधिः तं विप्रतिपत्तिमूलकसंशयपूर्वकं निश्चेतुं तावदाह-सप्रकार(७४-६) इति । सप्रकारो ज्ञानकर्मविधिः । प्रवर्तकज्ञानप्रकार इत्यर्थः । तस्य प्रवर्तकज्ञानप्रकारस्यान्वर्थविधिसंज्ञामुपपादयति - विधीयत(७४-६) इति । तस्य विधेः प्रवर्तकत्वं शक्तिग्रहपूर्वक निरूपयितुं तावदाह-शब्दव्यापारत्वमिति(७४-५)।
____ अत्रायं शक्तिग्रहप्रकारः । एकः प्रयोज्यवृद्धो नियोज्यवृद्धः शिष्यादिः । एकः प्रयोजकवृद्धो गुर्वादिः । एकस्तृतीयस्तटस्थः व्युत्पित्सुः । तत्र गुर्वादिना शिष्यं प्रत्युक्ते सति । हे देवदत्त ! भवान् तण्डुलान्' पचेत इति गुरुणा शिष्यं प्रत्युक्ते स शिष्यः तण्डुलान् आनयित्वा स्थाल्यां प्रक्षिप्य काष्ठाग्रिमधस्तात् कृत्वा पचति । स तटस्थः सर्वा शिष्यस्य क्रियां पश्यति। तदनन्तरं विचारयति । एतावत्कालं गुरुरपि स्थितः शिष्योऽपि स्थितः । शिष्येण इयं पाकादिक्रिया न कृता । इदानीमेव कृता इयं क्रिया कृतिजन्या क्रियात्वात् । मदीयभोजनक्रियावत् । साऽपि कृतिः कस्माज्जाता है । इच्छात एव । तत्राऽप्यनुमानम्-इयं कृतिः इच्छाजन्या कृतित्वात । मम भोजनक्रियानुकूलकृतिवत् । मम तृप्तदशायां भोजनानुकूला कृतिने जाता । बुभुक्षायां तु जाता इति कृत्वा सा कृतिः इच्छाजन्या । सा पाकानुकूलकृतिजनकेच्छाज्ञानजन्या इच्छात्वात् । मदीयेच्छावत् । तच्च ज्ञानम् एतस्य प्रयोज्यवृद्धस्य जातम् । तच्च चिकीर्षाद्वारा प्रवृत्तिजनकत्वात् प्रवर्तकं ज्ञानम् । एतावन्निर्णीतम् । एतस्य प्रयोज्यवृद्धस्य प्रवर्तकं ज्ञानं चेदुत्पन्नम् , तदा एतावत्यश्चेष्टाः तण्डुलाद्यानयनपाकादिक्रियारूपाः। तच्च प्रवर्तकं ज्ञ नं कारण जन्यं कार्यत्वाद् घटवत् । कारणान्तरमन्यत्
१. Ms has तन्दुलान् । २. An example of Jain Sanskrit ? आनीय । ३. Ms has एतावताः चेष्टाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org