________________
१७०
न्यायसिद्धान्तदीपे इति वाक्यार्थबोधो जायते, यदि इष्टसाधनत्व लिङर्थो न तहीष्टस्योपस्थितिरेव नास्ति किमर्थं विश्वजिता यजेतेत्यत्र स्वर्गरूपफल कल्पनेत्यर्थः ।।
मतान्तरमाह-कश्चिदिति (८६-७) । इष्टेति लिङर्थः साधनत्वमात्रमेवास्तु तच्च प्रत्ययोपस्थापितं साधनत्व निरुपधाच्छाविषयेण स्वर्गेणैवान्वितं न तु इच्छामात्रविषयेण यागेन । यागस्य निरुपधीच्छाविषयत्वाभावात् । स्वर्गस्य निरुपधी
छाविषयत्वात् । दूषयति-तथात्वे हीति (८६-९) । यदि बहिरङ्गस्य स्वर्गस्य निरुपधीच्छाविषयत्वेन सावनत्वान्वयस्तदा चित्रया यजेत पशुकामः, अग्निकामो दारुणी मथ्नीयाद्, अत्र अग्निपश्वोः निरुपधीच्छाविषधयत्वाभावात् साध्यत्वेनान्वयो न स्यात् , किन्तु यागेनैव सहान्वयः स्यादिति । अग्निकाम इत्यत्र यागरूपसाध्यसाधनत्वे लब्धे सर्वत्र यागरूपसाध्यसाधनत्वमेवार्थः स्यादित्यर्थः ।
न कलजं भक्षयेदिति निषेधानुरोधात् बलवदनिष्टाननुबन्धीष्टसाधनत्वमेव लिङर्थ इति उपसंहरति । तस्मादिति(८६-१०)। विशेषणत्रयस्य प्रयोजनमाहनिष्फलेति (८६-११)। उपलक्षणमेतत् । कृतिसाध्यमपि द्रष्टव्यम् । तथाच निष्फलवारणार्थम् इष्टसाधनत्वम् । 'कृत्यसाध्यवारणार्थ कृतिसाध्यत्वेति (८६१०) । मधुविषसंपृक्तान्नभोजनेऽतिप्रसङ्गवारणार्थम् बलवदनिष्टाननुबन्धीति (८६ --१०) । अत्राशङ्कते-श्येनेति (८६-११)। तथाच बलवदनिष्टाननुबन्धीष्ट - साधनत्वं न विध्यर्थः किन्तु श्येनयागस्य बलवदनिष्टानुबन्धित्वात् । तथाच श्येनयागः बलवदनिष्टाननुबन्धीष्टसाधनमिति कथं वाक्यार्थबोधः । कुतः ? इत्यत आहप्रायश्चित्तेति (८६-१२)। तथाच वैरिवधे प्रायश्चित्तं वर्तते इतिकृत्वा वैरिवधसाधकस्य श्येनयागस्य बलवदनिष्टानुबन्धितया श्येनयागे बलवदनिष्टाननुबन्धित्वस्यायोग्यत्वात् कथं बलवदनिष्टा ननुबन्धीष्टसाधनमिति वाक्यार्थबोध इत्यर्थः । तदिति (८६-१२) । बलवदनिष्टाननुबन्धित्वान्तर्भावेनेत्यर्थः। समाधत्ते-तत्रेति (८६-१३) । यथा तत्त्वज्ञानान्निःश्रेयस इत्यत्र पञ्चम्या अनन्यथासिद्धनियतपूर्ववर्तित्वमुपस्थितं तच्च तत्त्वज्ञाने शास्त्रेऽनन्वितम् । शास्त्रस्य श्रवणादिनाऽन्यथासिद्धत्वात् । तत्र अनन्यथासिद्धत्वांशं विहाय यथा नियतपूर्ववृत्तित्वमात्रस्यैवान्वयः तथा इ(ई)तप्रत्ययेन बलवदनिष्टाननुबन्धित्वमुपस्थितमपि श्येनयागे नान्वेति किन्तु कृतिसाध्यत्वे सतीष्टसाधनत्वमात्रमेवान्वेति तेन सहैव योग्यत्वात् ।।
., ननु विशिष्टो यः इ(ई)तप्रत्ययः स चेत् श्येनयागेऽयोग्यस्तदा विशिष्टायोग्यवाक्यप्रणेतृत्वेन ईश्वरस्यानाप्तत्व स्याद् इत्यत आह-अपि चेति (८६-१३)।
१. समुद्रतरणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org