________________
विधिवादटिप्पनम् ।
१७१ तथाच न हि सर्वत्र इदं वाक्यमयोग्यं किन्तु विहितो य आततायिवधस्तमुद्दिश्य यः श्येनयागस्तस्मिन् श्येनयागे बलवदनिष्टाननुबन्धोष्टसाधनत्वस्य विशिष्टस्य योग्यत्वात् न तत्प्रणेतुरीश्वरस्यानाप्तत्वमित्यर्थः । विहितेति (८६-१३)। विहितो वेदोक्तो यो म्लेच्छजनपदाभिचारः शत्रुसमूहवधस्तमुद्दिश्य श्येनयागाभिधानं योग्यम् ।
सर्वथाऽयोग्यत्वे किं स्यादित्यत आह-अन्यथेति (८६-१४)। श्येनेनाभिचरन् इति वाक्यस्यायोग्यत्वात् तत्प्रणेतुराप्तत्वं न स्याद् इत्यर्थ । तस्माज्जलेन सिञ्चतोत्यत्र यथा कुत्रचिद्वाक्यार्थो योग्यो यत्र जलेन सिञ्चनं नास्ति तत्रायोग्यत्वेऽपि जलेन सिञ्चतीति वाक्यमात्रप्रयोक्तु नाप्तत्वम् । तथा श्येनेनाभिचरन् यजेतेत्यत्र कुत्रचिदयोग्यत्वेऽपि न तत्प्रणेतुरीश्वरस्यानाप्तत्वम् । एतदेव विभागेन दर्शयति-अत एवेति (८६-१५) । यतः म्लेच्छजनाभिचारमुद्दिश्य यः श्येनयागः तत्र प्रायश्चित्तं नास्तीत्यत एव योग्य इत्यर्थः । समस्तस्येति (८६-१५)। बलवदनिष्टाननुबन्धीष्टसाधनत्वस्येत्यर्थः । विधेरिति (८६-१५) । इ(ई)तप्रत्ययार्थस्येत्यर्थः । अयोग्यमुदाहरति-अविहित (८६-१६) इति । तथाच धनलोभेन अविहितो यः ब्राह्मणाभिचारः ब्राह्मणस्य कपटवधस्तमुद्दिश्यानुष्ठितः कृतो यः श्येनयागस्तस्मिन् प्रायश्चित्तश्रवणात् तत्र श्येनयागे बलवदनिष्टाननुबन्धित्व विशेषणमयोग्यमित्यर्थः । तथा चात्र श्येनयागे बलवदनिष्टानुबन्धात् प्रायश्चित्तविधेरपि सार्थकत्वमित्याह-प्रायश्चित्तविधेरिति (८६-१६) । अन्यथा कुत्रापि श्येनयागे बलवदनिष्टानुबन्धो नास्ति तदा बलवदनिष्टनिवृत्तये श्येनयागकर्तुः यत् प्रायश्चित्तं तन्न स्यादेवेति तत्सार्थकम् । तथा च प्रायश्चित्तविधिः सार्थकः ।
अत्राशङ्कते-नन्विति (८६-१८) । एवम् इ(ई)तप्रत्ययस्यार्थो यदि बलवदनिष्टाननुबन्धीष्टसाधनत्वं तदेत्यर्थः । तथा च प्राणपञ्चकं बलवदनिष्टाननुबन्धिजीवनयोनिप्रयत्नसाध्यम् इष्टसाधनं च इति ज्ञाने सति प्राणपञ्चकेऽपि प्रवृत्तिः स्यादित्यर्थः । समाधत्ते नैयायिकः-प्राणादीति (८६-१८)। विकल्प्य दूषयति । तथा च प्राणपञ्चकशब्देन पञ्च प्राणा एव प्राणानां क्रिया वा । आद्ये दूषणमाह-प्रमाणेति (८६-२०) । न हि प्राणा एव जीवनयामिप्रयत्नसाध्याः प्राणानामतीन्द्रियत्वेन तत्र प्रयत्नसाध्यत्वाभावात् । द्वितीये त्वाहयदि श्वासोच्छ्वासक्रियामुद्दिश्य प्रवृत्तिः स्यादित्यापादने प्रवृत्तिशब्देन किमभिप्रेतमित्याह-प्रवृत्तीति (८६-२०)। तद्विशेष(८६-२१) इति । ज्ञानचिकीर्षापूर्विका कृतिरित्यर्थः । आये आह-इष्टेति (८६-२२)। प्रवृत्तिः स्यादित्यापादने जीवन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org