________________
१७२
न्यायसिद्धान्तदीपे
योनिप्रयत्नः सर्वदोत्पद्यते इति तदापादनं व्यर्थमेव । तथा च यन्नास्ति तस्या - पादनं कर्तव्यम् । जीवनयोनिप्रयत्नस्तु सर्वदा उत्पद्यत एव तदेापादनं व्यर्थमेवेति सङ्गतम् । द्वितीये त्वाह प्राणादीति (८६ - २२) । चिकीर्षापूर्विका कृतिस्तदा उत्पद्येत यदि प्राणादिपञ्चकक्रिया ज्ञानचिकीर्षापूर्वक कृतिसाध्या स्यात् । या प्राणादिपञ्चकक्रिया सा जोवनयोनिप्रयत्नसाध्या परं ज्ञानचिकीर्षापूर्वक कृतिसाध्या न भवति इति प्राणादिपञ्चकक्रियायां कृतिविशेषसाध्यताज्ञानमेव नास्ति कुत्र प्रवृत्यापादनमित्यर्थः । कृत्यसाध्यत्वादिति (८६ - २३) । कृतिविशेषा साध्यत्वात् कस्याः ! प्राणादिपञ्चकक्रियायाः, प्राणादिपञ्चकक्रिया यदि कृतिविशेषसाध्या न, तदा किं साध्या ? इत्यत आह-जीवनयोनीति (८६ - २३) । सा प्राणादिपञ्चकक्रिया जीवनयोनिप्रयत्नसाध्या ।
ननु प्रयत्नसाध्यत्वेऽपि कृतिसाध्यताज्ञानं तिष्ठत्येवेति प्राणपञ्चकक्रियोदेशेन प्रवृत्तिः स्यादित्यापादनं सम्भवत्येव इत्यत आह-न चेति (८६ – २४) । ननु जोवनयोनिप्रयत्नस्तु कृतिर्भवत्येव कृतिसाध्यताज्ञानभित्यत्र कृतिमात्रं विवक्षितं तथा च प्रवृत्त्यापादनं सम्भवत्येव इत्यत आह- चिकीर्षेति (८६ - २४ ) । तथाच बलवदनिष्टाननुबन्धित्वे सति कृतिसाध्यत्वे सतीष्टसाधनत्वमित्यत्र कृतिपदेन प्रयत्नमात्रं न विवक्षितं किन्तु चिकीर्षापूर्विका कृतिर्विवक्षिता । कृतिसाध्यत्वे सतीष्टसाधनस्वमित्यत्र न केवलं कृतिविशेषोऽस्माभिरेवोच्यते किन्तु प्राभाकराणामप्यावश्यक इत्याह- अन्यथेति (८६ - २४ ) । इदं मत्कृतिसाध्यं मत्कृतिं विनाऽसत्वे सति मदिष्टसाधनत्वादित्यत्र कृतिसाध्यतानुमानवादिनोऽपि कृतिमात्रसाध्यताज्ञानं प्राणपञ्चकक्रियायां तिष्ठतीतिकृत्वा प्राभाकरमतेऽपि प्रवृत्तिः स्यादित्यापादनं तुल्यमेव । तदेवाह - वृत्तीति । स्वमते दोषं विद्यमानमदृष्ट्वा परदोषापादनं स्थूलः प्रमादः, वस्तुतस्तु कृतिसाध्यताज्ञानमित्यत्र कृतिमात्रं विवक्षितमित्याह - किञ्चेति । तथा च यत्र कृतिसाध्येष्टसाधनताज्ञानं तत्र प्रतिबन्धकाभावे सति प्रवृत्तिर्भवत्येव । परन्तु कृतिसाध्येष्टसाधनताज्ञाने सति न प्रवृत्तिरिति न अपि तु प्रवर्त्तते । तत्र प्रतिबन्धकाभावे सति एतस्य प्रयोजनमाह-यत्रेति (८७ - ३ ) । तथाच जीवनयोनिप्रयत्नसाध्यताज्ञाने विद्यमानेऽपि प्राणपञ्चकोद्देशेन प्रवृत्तिः कृतिसाध्यताज्ञानस्य जीवनयोनिप्रयत्नेन अन्यथासिद्धत्वात् ज्ञानेन प्रवृत्तौ क्रियमाणायां जीवनयोनिप्रयत्न एव कृतिसाध्यताज्ञानस्य प्रतिबन्धकः । न हि प्रतिबन्धके सति कारणात् १ जीवनयोनिप्रयत्नापादनम् ।
Jain Education International
•
For Private & Personal Use Only
www.jainelibrary.org