Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 195
________________ १५८ न्यायसिद्धान्तदीपे अनुगतकारणतावच्छेदकग्रहनियमो नास्ति । यथा वह्नित्वावच्छिन्नकार्यतानिरूपित्तकारणताया अनुगतत्वेऽपि अनुगतकारणतावच्छेदक ग्रह नियमो नास्ति । यथा तृणे तृणत्वं पर्णे पर्णत्वम् इत्यादि । तद्वदेव इच्छात्वावच्छिन्नकार्यतानिरूपित कारणता सुखज्ञाने तत्र सुखत्वप्रकारकज्ञानत्वम् एवम् इच्छात्वावच्छिन्नकार्यतानिरूपितकारणता दुःखाभावज्ञानेऽपि तिष्ठति । तत्र च दुःखाभावत्वप्रकारकज्ञानत्वम् । एवं इच्छात्वावच्छिन्नकार्यतानिरूपित कारणता इष्टसाधनताज्ञानेऽपि तिष्ठति । तत्र इष्टसाधनताज्ञाने इष्टसाधनत्वप्रकार कज्ञानत्वं कारणतावच्छेदकं नैकमनुगतम् । अत्रानुरूपं दृष्टान्तमाह-गोमयेति (८२-१५) । यथा वृश्चिकत्वावच्छिन्नकार्यताप्रतियोगिक कारणतावच्छेदकं वृश्चिके गोमये च नैक यतो वृश्चिकादपि वृश्चिकः गोमयादपि वृश्चिकः । अत एव चक्रमर्दनशाकः वृष्टेरपि जायते बीजादपि च जायते। सत्र नैकं कारणतावच्छेद कमिति तद्वदत्रा पि' द्रष्टव्यम् । न केवलमिष्टसाधनत्ववादिमते एवेदं बाधकमपि तु कार्यवादिनोऽप्येतद् बाधकमित्याह-अन्यथेति (८२१६)। इच्छाजनकतावच्छेदकं नैकम् इदं चेन्नोच्यत इत्यर्थः । एतदेव विवृणोति । चिकीर्षेति (८२-१६) । न हि चिकीर्षाजन्यकृतिविशेषसाध्यताज्ञानत्वेन इच्छात्वावच्छिन्नं प्रति जनकतेत्यर्थः । व्यभिचारमाह-असाध्येऽपीति (८२-१७)। यत्र च कृत्यसाध्ये तक्षकचूडारत्नादौ समुद्रतरणे चिजन्यकृतिसाध्यताज्ञानं नास्ति तत्रापीच्छोत्पत्तेः । यत्र च कृतिसाध्यताज्ञानमपि नास्ति तत्रापि केवलं सुखत्वेन रूपेण सुखज्ञानात् दुःखाभावत्वेन रूपेण दुःखाभावज्ञानात् इच्छोत्पत्तेः स्फुट एव व्यभिचार इत्याह । कृतीति (८२-१८) । अप्रतीति (८२-१८)। कृतिसाध्यताज्ञानाभावेऽपीत्यर्थः । अत्र पूर्वपक्षी शङ्कते-हितेति (८२-२०)। इष्टसाधनत्वविध्यर्थवादिनो न कलञ्जमित्यत्र प्रतिषेधनञा कलञ्जभक्षणस्य हितोपायत्वम् इष्टसाधनत्वं न निषेध्यते । कुत इत्यत आह-बाधादिति (८२-२१) । यतः कलञ्जभक्षणस्य तृप्तिरूपेष्टसाधनत्वात् तन्निषेधो न सम्भवतीत्युकत्वात् । नापीति (८२-२१)। न कलजं भक्षयेदित्यत्र बलबदनिष्टाननुवन्धित्वं न निषिध्यते यतः इष्टसाधनताज्ञानस्य प्रवर्तकत्वेन इष्टसाधनत्वमेव विधिप्रत्ययेनोत्थाप्यम् , न च बलवदनिष्टाननुबन्धित्वज्ञानं प्रवर्तकमिति बलवदनिष्टाननुबन्धित्वमपि विधिप्रत्ययानुत्थाप्यम् । तदज्ञानस्येति (८२-२२)। बलवदनिष्टाननुबन्धित्वज्ञानस्येत्यर्थः । तस्येति (८२-२२) बलवद १. इच्छात्वावच्छिन्नकार्यतानिरूपितकारणतायाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270