Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 196
________________ विधिधावटिप्पनम् । निष्टाननुबन्धित्वस्य । ननु यथाकथञ्चित् उपस्थितस्य बलवदनिष्टाननुबन्धित्वस्य ना निषेधोऽस्तु इत्यत आह-तदिति । विधिप्रत्ययोपस्थितेनैव निषेधान्वयः । - अत्र नैयायिकः शङ्कते-न चेति (८२-२३) । तथाच परदारगमनादौ बलवदनिष्टानुबन्धित्वज्ञाने विद्यमानेऽपि शिष्टानां प्रवृत्तिर्नास्ति इतिकृत्वा बलवदनिष्टाननुबन्धित्वं ममाप्यनन्यगत्या विध्यर्थः । तेन सह नत्रा निषेधोऽस्तीत्यर्थः । दूषयति तत्प्रतीति (८२-२४)। न बलवदनिष्टाननुबन्धित्वं विध्यर्थः किन्तु इष्टसाधनत्वमात्रम् । परदारगमनादौ इष्टसाधनत्वज्ञाने प्रवर्तके विद्यमानेऽपि न प्रवृत्तिः । कुतः । बलवदनिष्टानुबन्धित्वज्ञानस्य प्रतिबन्धकस्य विद्यमानत्वादिति पूर्वमेवोकत्वात् । न कलजमित्यत्र नमो निषेधरूपत्वाभावेऽपि पर्युदासत्वं भविष्यतीत्याशङ्कते । न चेति(८२-२४)। निषेधस्य क्रियान्वयेऽपि पर्युदासस्य क्रियान्वयो नास्तीति पर्युदासेनाऽनिष्टसाधनत्वरूपोऽर्थों लभ्यत इत्यर्थः । अत्रोदाहरणमाह-यजतिष्विति (८३-१) । यथा यजतिषु यजामह इति शब्दः कर्त्तव्यः । नानुयाजेष्विति । अनुयाजेषु यजतिभिन्नेषु यागेषु यजामहशब्दो न कर्त्तव्य इति निषेधो न सम्भवति । कुतः वाक्यद्वयं स्यात् ? यथा यजतिषु यजामहशब्दः कर्त्तव्य अयमेको वाक्यार्थः, अनुयाजेषु यजामहशब्दो न कर्त्तव्यः इति द्वितीयो वाक्यार्थः इति वाक्यभेदादथ च यजतिषु यजामहशब्दः प्राप्त एव वर्त्तते विधायकवाक्यात् तथाच प्राप्तानुवादः स्यादित्येकवाक्यत्वरक्षणार्थमनन्यगत्या अयं नञ् पर्युदास उच्यते । तथा चानुयाजव्यतिरिक्तेष्वित्यर्थो लभ्यते । तथा चायं वाकयार्थः । यजतिषु ये यजामहशब्दं कुर्वन्तीत्यनूध अनुयाजव्यतिरिक्तेविति विधीयते तथाच सति एक वाक्यं सम्भवत्येकवाक्यत्वे हि वाक्यभेदो हि दूषणमिति । नानुयाजेष्विति (८३-१) अयं पयुदासनञ् तद्वदयं न कलज भक्षयेदित्यत्राप्ययं न पर्युदासः। तेन पर्युदासनञा इष्टसाधनत्वविरोधि बलवदनिष्टसाधनत्वं ज्ञाप्यते । एतदेवाह-तथात्राऽपीति (८३-२) । दूषयति वाक्येति (८३३)। नानुयाजेष्वित्यत्र वाक्यभेदभयात् क्रियान्वयाभावाच्च नानुयाजेष्वित्यत्र नमः पर्युदासत्वम् । गत्यन्तरेति (८३-३)। नञः पर्युदासत्वेन विना अन्या गतिर्नास्ति । तत्रेति (८३-३) नानुयाजेविति । अत्रेति (८३-४) । न कलजं भक्षयेदित्यत्र तदभावादिति । नओ निषेधरूपत्वे वाक्यभेदाभावात् क्रियान्वयित्वाच्च निषेधरूपत्वेनाप्युपपत्तेर्न पर्युदासत्वं, तस्मात् इष्टसाधनत्वविधिपक्षे कलञ्जभक्षणादौ विध्यर्थप्रतिषेषानुपपत्तेः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270