Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 203
________________ १६६ न्यायसिद्धान्तकोपे तथाच इष्टसाधनताज्ञानाभावे सन्ध्योपासनस्थळे प्रवृत्तिः कथं स्यादित्यरुचिः । सन्ध्योपासनादौ प्रवृत्तिं समर्थयति-वेदेति (८५-२) । तथा च सन्ध्योपासनं वेदबोधितकर्तव्यताकं लिङसमभिव्याहृतवेदवाक्योक्तत्वात् । अनेनानुमानेन सन्ध्योपासनस्य कर्तव्यतामनुमाय प्रवृत्तिर्भविष्यति ।। ननु नियता प्रवृत्तिः कथं भविष्यतोत्यत माह-अकुर्वन्निति (८५-३)। वेदविहिताकरणं प्रत्यवायसाधनमिति वाक्यबलात् सन्ध्योपासनस्य प्रत्यवायहेतुत्वमवगतं ततश्चानुपासनाभावरूपोपासनस्य प्रत्यवायाभावसाधकत्वमिति प्रत्यवायाभावमुद्दिश्य नियतं सन्ध्यावन्दनादौ प्रवृत्तेरविरोधात् । तद्वयतिरेकस्येति (८५-४) । अनुपासनाभावरूपोपासनस्य काम्यत्वम् इच्छाविषयत्वम् । अवधार्य तदुपाये (८५-५) इति प्रत्यवायनिवर्तकोपासनोपाये प्रवत्तते । न तूपासने प्रवर्तते । अयोग्यत्वादिति (८५-५) । इष्टभावेनायोग्यत्वादित्यर्थः । मतान्तरमाह-प्रकरणादीति (८५-५)। इष्टसाधनतानन्वयेऽपि नानुपपत्तिरुपासने इष्टसाधनत्वस्य बाधात् । तथा प्रकरणोपस्थापितोपासनोपाये इष्टसाधनत्वमन्वेति । यत्र श्रुतिलिङाधर्थेन नान्वयः इष्टसाधनस्य तत्र प्रकरणोपस्थितेनापि सहान्वयः । उपासनप्रकरणात् उपासनोपायस्तु प्रकरणोपस्थापितो भवत्येव । कश्चिदि(८५-६)त्यनेनास्वरसः । यथोपासनस्य इष्टाभावादिष्टसाधनत्वं नान्वेति । तथोपासनोपायेऽपोष्टसाधनत्वं नान्वेति । न चोपासनोपायस्य प्रत्यवायानुत्पादकत्वेन उपासनमेवेष्टमिति वाच्यम् । उपासनस्य फलाभावेन उपासनस्य वेदविहितत्वं कथं स्यादित्यनुपासनस्य प्रत्यवायहेतुत्वमपि नास्तीति नाऽयं पन्थाः । __ शङ्कते-नन्विति (८५ ७)। इष्टसाधनताज्ञानस्य प्रवर्तकत्वे ज्ञाने. इच्छाऽपि विशेषणमिति इच्छाज्ञानस्यापि प्रवर्तकत्वं स्यादित्यर्थः । अत्र शकते इच्छेति(८५-७) । तथाच अत्र एतादृशे ज्ञाने इच्छा विषयतया न विशेषणमिति न इच्छाज्ञानं प्रवर्तकमित्यभिप्रायः । न हीच्छाविषयताया अवच्छेदको यः प्रकारः स्वर्गत्वादिस्तद्वान् यः स्वर्गः तत्प्रतियोगिका या कार्यता तन्निरूपितं कारणं याग इति ज्ञाने इच्छा विशेषणमिति सम्भवति इति न हि, किन्तु स्वरूपसत्येव इच्छा विवक्षिता । दषयति अत्रापीति (८५-९)। इच्छाविषयतावच्छेदकप्रकारतावत्प्रतियोगिकसाधनमिति ज्ञानेऽपि इच्छा विशेषणं वा उपलक्षणं वा । तदानस्येति (८५-९) । इच्छाज्ञानस्यापि उपलक्षणत्वे दूषणमाह-द्वितीये स्विति (८५-१०)। उपलक्ष्यता १. Text has तद्व्यतिरेकरूपस्य । २. Ms. "इच्छाविषयरूपेष्टवत्" इत्यधिक निरर्थकम् । ३. T. has तद्भानस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270