________________
योगरूढिवादः ।
५७
"भिन्नत्वं कदाचिच्छन्द समवायित्वं संस्कारवशाद् भाषते, अंत्र तु व्युत्पन्नस्य पद्मत्वं नियमेन भासत इति महान् विशेषः ।
शक्तिरेव तत्रापीति केचित् । न च पशुत्वगोत्वयोः प्रयोगोंपाधित्वं शक्त्युपाधित्वं वा । घटपटादिपदे घटत्वादेरपि तथाभावप्रसङ्गात् । नं च तत्र तत्पदात् निर्विकल्पकोदयभिया तथा नाङ्गीक्रियत इति वाच्यम् ; उषाविभूतेन घटपटत्वादिना संस्कारोपस्थितेन प्रकारेण निर्विकल्पकोदयनिरासस्य शक्यभाषणत्वात् । तस्मात् परिभाषैवैषा प्रयोगोपाधिः शक्त्युपाधिर्वेति । न च कुमुदादौ प्रयोगवारणार्थ पद्मत्वस्मरणस्य प्रतिबन्धकत्व पङ्को तरजपदस्य वा शक्तिकौच्यं वा कल्प्यताम् । अव्युत्पन्नस्य पङ्कजपदत् पङ्कजनिकर्तृत्वेन रूपेण कुमुदादिबोधदर्शनात् । अत एवान्युत्पन्नः पैङ्कजमानयेति वाक्यश्रवणानन्तरं कुमुदानयने दोलायते ।
न च सामान्यशब्दत्वादमीषां विशेषतात्पर्यवशाद् विशेषबोधजनकत्वमिति वाच्यं, वैस्तुगत्या यो विशेषस्तद्बोधकत्वं वा विशेषप्रकारेण वा । नाद्यः । पद्मत्वाननुभवापातात् । नेतरः । स हि विशेषः शक्तिगोचरो न वा । नाद्यः । विवादपर्यवसानात् । नेतरः । लक्षणापातात् । न चात्रेष्टापत्तिः । मुख्यार्थविशेषितस्यैव पद्मत्वस्य भानात् ।
वाक्ये न लक्षणेत्यप्याहुः । तात्पर्याप्रतिसन्धानेऽपि पङ्कजमानयेति' वाक्यार्थबोधात् पद्मानयनबोधावधारणाच्च । अन्यथा घटपटादिशब्दानामपि सामान्यशब्दत्वमेवास्तु । तत्तद्विशेषतात्पर्यवशात् तत्तद्विशेषबोध उत्पत्स्यत इति ब्रुवाणं को वा वारयिता" स्यात् । न च पङ्कजं कुमुदमानयेत्यत्र पङ्कजपदे लक्षणा, किन्तु पद्मत्वमुपस्थितमप्यन्वयायोग्यतया नान्वेति । ranवार्थ एवं परमन्वेतीति न किञ्चिदनुपपन्नम् ।
यत्तूक्तम् प्रत्यक्षोपस्थितेनापि कलायेन तात्पर्यग्रहं सहकारिणमासाद्य कलायं पचतीत्यत्राऽन्वयबोध इति तत् तदा शोभेत यदि तात्पर्यग्रहस्य १. P reads दृष्टद्रव्याभिन्नत्वं । २. P reads घटादिपदे । ३. M1, Mg
drop तत्र तत्पदात्, P reads तस्मात् । 8. Pn+M, read घटत्वादिना । ५.
Pn+IO. read कौट्यं वा कल्पनीयम् । ६. P adds विशेषबोधकत्वं । ७. P reads ० वाचकत्वं । ८. P reads पद्मत्वानुभवापातात् । ९ I O adds वाक्यश्रवणानन्तरं । १०. I. O reads निवारयिता ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org