________________
अन्यथाख्यातिवादः। न च तृतीयार्थानिर्वचनम् । सप्रकारस्यैव' तत्त्वात् । न च प्रकारानिर्वचनाद्दौस्थ्यम् उभयवादिसमाधेयत्वात् । न च दोषस्य प्रकृतकार्यप्रतिबन्धकत्वमात्रम् । दवदग्धे वेत्रबीजादौ कदलीकाण्डजननदर्शनात् । अन्यथा दोषात् तवापि कथं विसंवादिनी प्रवृत्तिस्स्यात् । न च ज्ञानस्यायथार्थत्वे समाश्वासाभावः । विसंवादिप्रवृत्तिजनकत्वेऽपि समानत्वेनोभयवादिसमाधेयत्वात् ।
न च भेदाग्रहप्रसञ्जिताभेदव्यवहारस्य बाध्यत्वम् , व्यवहारो हि प्रवृत्तिर्वा शब्दप्रयोगो वा । नाद्यः । न हि नेदं रजतमिति ज्ञानं प्रवृत्ति बाधते प्रवृत्तेः सर्वत्राभावात् , नापि प्रवृत्तियोग्यताम् अशकयत्वात् । न द्वितीयः । न हि नेदं रजतमिति ज्ञानस्य पुरोवर्तिनि रजतशब्दप्रयोगो नास्तीति विषयः', अनुभवविरोधात् । न च रजतभेदाप्रकारकं पुरोवर्तिज्ञानं रजतोपस्थितिसहायं पुरोवर्तिनि प्रवर्त्तयति, पुरोवत्तिज्ञाने वा ये भेदा भासन्ते तेषु एव रजतत्वप्रतियोगित्वं न गृह्यते इत्येवं वा प्रवर्तते, अग्रहपदेन पर्युदासमर्यादया ग्रह विशेषस्यैव विवक्षितत्वात् इति वाच्यम् । सत्यरजते नेदं रजतमिति कृत्वाऽपि प्रवर्तेत । न हि तत्र पुरोवर्तिज्ञानं रजतभेदप्रकारकम् । न वा तज्ज्ञानविषयो भेदो रजतप्रतियोगित्वेन गृह्यते । अन्यथाख्यातिस्वीकारापातात् ।
किश्च कोऽसौ भेदो यदग्रहो व्यवहारयति । न तावत्स्वरूपम् । इदं रजतमित्यत्र स्वरूपग्रहस्य विधमानत्वात् । नापि वैधये, वैधर्म्यस्य किं स्वरूपेणाग्रहो भेदाग्रहो वैधर्म्यत्वेने वा । न तावदाद्यः । वस्तुगत्या यद वैधयं तद्ग्रहेऽपि व्यवहारस्य दर्शनात् । नापि द्वितीयः। वैधर्म्यत्वस्यात्यन्ताभावत्वेन निर्वचनात् । अत्यन्ताभावस्य स्वरूपादन्यस्य त्वयानङ्गीकारात् । किञ्च यत्किश्चिदवैधर्म्यस्य च सर्वत्र [तद्ग्रहात्" तदीयत्वेन विशेषणेऽननुगमात् । नाप्यन्योन्याभावः, तस्य त्वयाऽनभ्युपगमादिति ।
किञ्च भेदाग्रहस्य प्रवर्तकत्वं सत्यरजतस्थले न सम्भवति । तथाहि
१. Ma reads प्रकारवत्त्वस्य, P reads प्रकारस्य । २. P reads प्रकारनिर्वचनदोस्थ्यम् । ३. P reads दग्धवेत्रबीमात् । ४. P reads दोषाणां तत्त्वे । ५. P reads जनकत्वेनोभयवादिसमाधेयत्वात् । ६. P reads विशेषः । ७. P reads अपहशब्देन । ८. P reads यस्याग्रहः। ९. P reads वैधयेंण, comm.गुणरत्न reads वैधय॑त्वेन । १०. गुणरत्न reads तद्ग्रहात् ।
१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org