Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 185
________________ १४८ न्यायसिद्धान्तदीपे साधनत्वप्रवेशे विशेष इत्याह--तथा चेति (७९--११) । अध्यवसायकर (७९--११) इति निश्चयकर इति । ननु प्राभाकरो वक्ति ममापि कृतिसाध्यो यागः स्वर्गसाधकः । अत्र यागनिष्ठेन कृतिसाध्यत्वेन यागनिष्ठं स्वर्गसाधकत्वं समानाधिकरणमपि भवति सजातीयमपि भवति इति कृत्वा ममापि साजात्यसामानाधिकरण्याभ्यां च विशेषस्तुल्य इत्यत आह--उभयत्रेति (७९--११) । तव साध्यत्वे दत्तपदम् । मम नैयायिकस्य साधनत्वे दत्तपदम् । यथा तव मत्कृतिसाध्यो यागः स्वर्गसाधकः, मम मस्कृतिसाधनको यागः स्वर्गसाधनं, तव उभयत्र साध्यत्वप्रवेशान्मम उभयत्र साधनत्वप्रवेशान्नैकपक्षस्वीकार इत्यर्थः ।। ...ननु प्राभाकरो वक्ति-तव नैयायिकस्य न समीहितसिद्धिरित्यत आह--अत्र त्विति । पूर्वपक्षिणो विनिगमनाविरहे न कापि क्षतिरित्यर्थः । इष्टसाधनताज्ञानं प्रवतमिति नैयायिकमतं वण्डयति । नन्वेवमिति (७९--१३) । असाध्ये समुद्रतरणादाविति । कृतीति (७९-१४) । कृतिसाध्यत्वे सति इष्टसाधनत्वमित्यर्थः । पूर्वपक्षी वदति नेति (७९--१४)। अन्येति (७९--१४)। स्वकृत्यसाध्ये अन्यकृतिसाध्ये कारीर्यादी कृतिसाध्यत्वे सति इष्टसाधनत्वात् कारीरी कर्तुमसमर्थस्यापि प्रवृत्तिः स्यादित्यर्थः । अत्र शङ्कते स्वकृतीति (७९--१५) । तथाच स्वकृतिसाध्यत्वे सति इष्टसाधनत्वम् । कारीरों कर्तुमसमर्थस्य कारीरो स्वकृतिसाध्यैव । नेति(७९--१५)। नकारीमतिप्रसङ्ग इत्यर्थः । दूषयति स्वकृतीति (७९--१६)। स्वकृतिसाध्ये विषभक्षणादो अन्येष्टसाधने स्त्राऽनिष्टसाधने प्रवृत्तिप्रसङ्गात् इत्यर्थः । अत्र शकते इष्टत्व मिति (७९-१६)। तथाच स्वकृतिसाध्यत्वे सति स्वेष्टसाधनत्वमिति स्वानिष्टसाधनम्, अन्येष्टसाधनं तु न स्वेष्टसाधनमित्यर्थः । दूषयति-तथाभूतेति (७९-१७) । तथा वाऽतोतभोजनस्य स्वकृतिसाध्यत्वे सति स्वेष्टसाधनत्वात् तत्र प्रवृत्तिप्रसङ्ग इत्यर्थः । ननु विद्यमानत्वमपि विशेषणमित्यत आह-तथाभूतेति (७९ -१७) । स्वर्गसाधनत्व कृतिसाध्यत्वयोरित्यर्थः । साध्यत्वं विद्यमानपागभावप्रतियोगित्वं, साधनत्वं विधमानप्रागभावाप्रतियोगित्वम् । तयोर्विरोधेनैकत्रावस्थातुमशक्यत्वात् इत्यर्थः । पतदेव विवृणोति-नहीति (७९-१८)। उत्तरभावी(७९-१८)ति विद्यमानप्रागभावप्रतियोगिपूर्वभावोति विद्यमानप्रागभावाप्रतियोगीत्यर्थः । निरूपकेति (७९-१९)। तथाच यत् यस्य साध्यं तत्तस्य साधनं न भवति । यथा घटः कपालस्य साध्यः कपालस्य साधनं च न भवति, एकनिरूप्यत्वेन साध्यत्वसाधनत्वयोर्विरोधात् । कपालस्य साध्यो जठाइणय साध समिति निरूपभेदेनाविरोध इत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270