Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 132
________________ अन्यथाख्यातिवादः। ननु भेदाग्रहपक्षे नेदं रजतमिति ज्ञानेन किं बाध्यम्' ? इदमिति ज्ञानं वा रजतमिति ज्ञानं वा । न तावदाद्यः । इदन्त्वस्य तदवस्थत्वात् । नेतरः। रजतस्यापि क्वचित् सत्त्वात् । तस्मात् शुक्तौ रजतत्वज्ञानं निषिध्यते रजताभेदो वा । उभयथाऽपि बाधकबलेनान्यथाख्यातिसिद्धिरिति । मैवम् । भेदाग्रहप्रसजिताभेद व्यवहारस्य बाध्यत्वात् । ननु भेदाग्रहस्य प्रवर्तकत्वे संवादासंवादलक्षणप्रवृत्तिवैचित्र्यं न स्यात् । तस्मादभेदग्रहस्य संवादिप्रवृत्तिजनकत्वमवश्यं वाच्यम् । तथा चाननुगमस्तदवस्थ एवेति । मैवम् । रजते रजतभेदाग्रहस्य संवादिप्रवृत्तिजनकत्वाद्विपरीते रजतभेदाग्रहस्य विसंवादिप्रवृत्तिजनकत्वादिति पूर्वपक्षसङ्क्षपः। ___ अत्रोच्यते । रजतत्वप्रकारकज्ञानस्य रजतत्वव्यवहारकारण त्वमिति तावदविवादम् । अत्र व्यवहर्त्तव्यविशेष्यकत्वस्यातन्त्रत्वेऽतिप्रेसङ्गवारणार्थ भेदाग्रहोऽपेक्षणीयः । सोऽपि न यस्य कस्यापि किन्तु रजतस्य । न वा यत्र कुत्रापि किंतु पुरोवत्तिनि । तथा च रजतप्रतियोगिक भेदग्रहाभावः पुरोवतिनि रजतव्यवहारे नियामकः इति अभिमतम् । तथा च पुरोवर्तिनि रजतभेदविषयकग्रहाभावस्य रजतव्यवहारनियामकत्वमस्तु पुरोवत्तिनि रजतत्वग्रहस्य वा । तत्राधे गौरवमतो द्वितीय एव ज्यायान् । न चैवमन्यथाख्यातिस्वीकारे गौरवप्रसङ्गः । प्रमाणवतो गौरवस्यापि न्याय्यत्वात् । न चान्यथाख्यातिकारणतया भेदाग्रहस्य स्वीकर्तव्यत्वात् तस्यैव व्यवहारकारणत्वमस्तु इति वाच्यम् । अन्यथाख्यातौ क्लुप्तायां तत्राग्रहकारणत्वकल्पनस्योचितत्वात् । नन्वेवं व्यवहारे तत्राग्रहकारणतायामेव विवादात् रजतज्ञानस्यावश्योपजीव्यत्वात् तदेवास्तु प्रवर्तकं, तथापि प्रवृत्तिसमानविषयकत्वमनुपजीव्यं सत्यरजतस्थले तदैवायोतमिति चेन। प्रवृत्तिसमानविषयकत्वस्यानुपजीव्यत्वे अतिप्रसङ्गात् । न च तद्वारणार्थमग्रह एवोपासनीयः, अन्तरङ्गन्यायेन प्रवृत्तिसैमानविषयत्वोपासनाया एवोचितत्वात् । न च सर्वत्रोभयवादिप्रसिद्धत्वादग्रहस्यैव कारणता ग्राह्या" विशिष्टज्ञानस्योभयवाद्यसिद्धत्वादिति वाच्यम् । न ह्युभयवादिसिद्धत्वं कारणत्वस्वीकारे प्रयोजकम्, किन्तु प्रमाण १. P reads बाध्यते । २. P reads इदन्तास्पदस्य। ३. P reads न युक्तिमत्त्वात्। ४. Preads सत्यरजते । ५. P reads विशेष्यकत्वेऽतिप्रसङ्गनि०। ६ P reads चायम् । ७. P drops रजत-। ८. P reads व्यवहारे कारणत्वमस्तु । ९. P reads तथैवा.। १०. M. reads अतिप्रसस्योक्तत्वात् । ११. P drops प्रवृत्ति । १२. P reads न्याय्या। १३. P reads (उ)भयवादिसिद्धत्वात् इति। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270