________________
ईश्वरवादः। न पञ्चमः । उभयभिन्नत्वं हि केन प्रकारेणोपस्थितेऽधिकरणे ग्राह्यम् । न तावदनुगतेन तस्याभावात् । नाननुगतेन तस्यानन्ततया प्रत्येकमशक्यग्रहत्वात् । अप्रसिद्धपदार्थविकल्पानुपपत्तेश्च ।
न चरमः । असम्भवात् ।
किश्च साध्यमपि निरूप्यते । तथाहि सकर्तृकत्वं वा कर्तृजन्यत्वं वा कर्तृसाक्षाज्जन्यत्वं वा बुद्धिमत्पूर्वकत्वं पा साक्षाबुद्धिमत्पूर्वकत्वं वा उपादानगोचरापरोक्षज्ञानचिकीर्षादिमज्जन्यत्वं वा । नाद्यः। घटादिकत्रैव साहित्यसम्भवे सिद्धसाधनात् । नापरः, तत्त्वादेव । न तृतीयः । साक्षाज्जन्यत्वं हि तज्जन्याजन्यत्वे सति तज्जन्यत्वम् । तथाच साध्यविकलो दृष्टान्तः । न हि घटादिकं साक्षात्का जन्यते । नापरः, सिद्धसाधनात् दृष्टान्तासिद्वेश्च । नापरो घटाधुपादानगोचरतादृशज्ञानादिमताऽस्मदादिना एव सिद्धसाधनात् । किं चैवं निरुपादानस्य ध्वंसस्य तव मते कथं सकर्तृकता स्यात् । अतीन्द्रियोपादानयोः वायुशब्दयोर्वा कथं अस्पदादिकर्तृकता स्यात् इति । उपादानपदेनोपायमात्रमेव विवक्षितमिति चेन्न । अस्मदादिना सिद्धसाधनात् । अस्मदादीनामपि सकलकार्य किंचिदुपायाभिज्ञत्वात् ।
अपि च । नापरोक्षज्ञानादिमज्जन्यत्वं सकर्तृकत्वं यागस्याऽस्मदायककित्वापातात । न हि तत्रापरोक्षज्ञानं चिकीर्षाकृतिजनक किन्तु शाब्दम् । न च तत्र सर्तकत्वमेव नास्ति, व्यवहारविरोधात् । ज्ञानमात्रमेव विवक्षितमिति चेन्न एवं हि ज्ञानमादाय साध्यपर्यवसानं स्यात् । न तावत्प्रत्यक्ष नियामकाभावात् । नापरः तत एव । न च प्रत्यक्षादिजातीयं ज्ञानपञ्चक "मेवेश्वरेऽङ्गीकार्यम् अपसिद्धान्तापातात् । किश्च प्रत्यक्षत्वादिजातीनां कारणविशेषप्रयोज्यतया कथं नित्ये वृत्तिसम्भावनापि । तथा च यावद्विशेषबाधात् ज्ञानमपि बाधितम् ।
एवमिच्छाप्रयत्नावपि । किच्चात्र किं लिङ्गमपि कार्यत्वमिति यदि तदा किं कार्यत्वम् । कृति
१. P reads तस्यानन्तरं तयोः। २. P+ I. O. add साध्यं here । ३. I. O. reads तज्जन्यत्वम् । ४. P reads बुद्धिमत्पूर्वकर्तृकत्वं वा साक्षात् बुद्धिमत्पूर्वकर्तकत्वं बा। ५. PAI.O. read ज्ञानादिमज्जन्यत्वं वा । ६. P reads शब्दः । ७. शेषानन्त notes ज्ञानादिपञ्चकमिति । अर्थापत्तेः प्राक्प्रामाण्याभिनिवेशेन गुरोर्वचनमेतत् । ८. P+I.O. read न सिध्येत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org