________________
(२६) अभाववादः । अभावो' भावत्वानधिकरणं प्रमेयान्तरं प्रागभावत्वादिभेदेन चतुति गौतमीयाः, तदेतद् बिलवत्तिगोधाविभजनं भावत्वानधिकरणे नबर्थे मानाभावात् । इह कलशो नास्तीति बुद्धिस्तत्र प्रमाणमिति चेन्न । इह हि कलशात्यन्ताभावो वा प्रतीयते उत तत्संयोगात्यन्ताभावो वा तत्समवायात्यन्ताभावो वा । नाधः। प्रतियोगिसमानदेश्यत्वस्य तैरस्मिन्ननभ्युपगमात् । नापरौ । भूतले स्वरूपेणैव तदुपपत्तेः । तद्वत्यपि तर्हि प्रसङ्ग इति चेत्, न । भूतले 'तत्समवायवत्तानभ्युपमात् । अत्यन्ताभावस्थले संयोगाभावस्यापि तथात्वात् । भूतलसंयुक्तं घटमपसार्य प्रत्येति घटो नास्तीति तत्र न भूतल स्वरूपं घटाभावः, तस्य घटवत्यपि सत्त्वात् इति चेन्न । तत्र केवलभूतले तत्प्रतीतिदर्शनात्' । न च कैवल्यं दुनिर्वचनं घटसंयुक्तभूतलान्यभूतलत्वस्यैव तत्त्वात् । अभावसम्बन्धस्वरूपाधिकरण विशेषस्याभाववादिनाऽपि अनुमन्तव्यत्वात् । अन्यथा तदवत्यपि तदभावसम्बन्धः स्यात् ।
किश्च परस्याप्यभावे घटो नास्तीति प्रतीतेरधिकरणस्वरूपस्य समर्थनीयत्वात् । बुद्धिविशेषाद्वा नास्तीति व्यवहारोऽस्तु । न च विषयवैचित्र्याद बुद्धेविचित्रव्यवहारजनकत्वमयुक्तम् , विषयमात्रापलापप्रसङ्गादिति वाच्यम् । विषयावैचित्र्येऽपि संस्कारजज्ञानस्य तत्तान्यवहारकत्वस्वीकारात् । अन्यथा साऽपि पदार्थान्तरम् भविष्यति । एवं घटो विनष्टो घटो भविष्यति इति व्यवहारावप्यधिकरणविशेषनिबन्धनौ । तथाहि कारणविशेषसमवहितं कपालमाकलय्य घटे भविष्यत्ता व्यवह्रियते तथाच तत्र तदेव निबन्धनम् । एवं ध्वंसव्यवहारोऽपि मुद्गरप्रहारासादितविशेषाधिकरणाधीन एवेति सामान्यतोविशेषतश्च नास्तिताव्यवहारोऽन्यथोपपन्न इति कस्मात् प्रमेयान्तरमभावः
१. The beginning of अभाववादः is missing in P. The editor notes the following: अभाववादे यत्र यत्र मूलं काठिन्येनोपलब्धं तत्र तत्र दास्यते समग्रस्यानुपलम्भात् इति। The text in Pstarts with "न च विषयवैचित्र्ये बद्धः etc. २. I. O. reads भूतलरूपेणैव । ३. I. O. reads घटसमवायवत्ता०। ४.
M, drops a line here । ५. I. O. reads भावात् । ६. I. 0. reads तत्प्रतीतिजननात् । ७. I.O. reads दुर्घटं घटघटितभूतलान्य० । ८. I. O. reads अभावव्यवहारः। ९. P reads सोऽपि । १०. I. O. reads स्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org