________________
अन्यथाख्यातिवादः। ननु भेदाग्रहपक्षे नेदं रजतमिति ज्ञानेन किं बाध्यम्' ? इदमिति ज्ञानं वा रजतमिति ज्ञानं वा । न तावदाद्यः । इदन्त्वस्य तदवस्थत्वात् । नेतरः। रजतस्यापि क्वचित् सत्त्वात् । तस्मात् शुक्तौ रजतत्वज्ञानं निषिध्यते रजताभेदो वा । उभयथाऽपि बाधकबलेनान्यथाख्यातिसिद्धिरिति । मैवम् । भेदाग्रहप्रसजिताभेद व्यवहारस्य बाध्यत्वात् । ननु भेदाग्रहस्य प्रवर्तकत्वे संवादासंवादलक्षणप्रवृत्तिवैचित्र्यं न स्यात् । तस्मादभेदग्रहस्य संवादिप्रवृत्तिजनकत्वमवश्यं वाच्यम् । तथा चाननुगमस्तदवस्थ एवेति । मैवम् । रजते रजतभेदाग्रहस्य संवादिप्रवृत्तिजनकत्वाद्विपरीते रजतभेदाग्रहस्य विसंवादिप्रवृत्तिजनकत्वादिति पूर्वपक्षसङ्क्षपः।
___ अत्रोच्यते । रजतत्वप्रकारकज्ञानस्य रजतत्वव्यवहारकारण त्वमिति तावदविवादम् । अत्र व्यवहर्त्तव्यविशेष्यकत्वस्यातन्त्रत्वेऽतिप्रेसङ्गवारणार्थ भेदाग्रहोऽपेक्षणीयः । सोऽपि न यस्य कस्यापि किन्तु रजतस्य । न वा यत्र कुत्रापि किंतु पुरोवत्तिनि । तथा च रजतप्रतियोगिक भेदग्रहाभावः पुरोवतिनि रजतव्यवहारे नियामकः इति अभिमतम् । तथा च पुरोवर्तिनि रजतभेदविषयकग्रहाभावस्य रजतव्यवहारनियामकत्वमस्तु पुरोवत्तिनि रजतत्वग्रहस्य वा । तत्राधे गौरवमतो द्वितीय एव ज्यायान् । न चैवमन्यथाख्यातिस्वीकारे गौरवप्रसङ्गः । प्रमाणवतो गौरवस्यापि न्याय्यत्वात् । न चान्यथाख्यातिकारणतया भेदाग्रहस्य स्वीकर्तव्यत्वात् तस्यैव व्यवहारकारणत्वमस्तु इति वाच्यम् । अन्यथाख्यातौ क्लुप्तायां तत्राग्रहकारणत्वकल्पनस्योचितत्वात् ।
नन्वेवं व्यवहारे तत्राग्रहकारणतायामेव विवादात् रजतज्ञानस्यावश्योपजीव्यत्वात् तदेवास्तु प्रवर्तकं, तथापि प्रवृत्तिसमानविषयकत्वमनुपजीव्यं सत्यरजतस्थले तदैवायोतमिति चेन। प्रवृत्तिसमानविषयकत्वस्यानुपजीव्यत्वे अतिप्रसङ्गात् । न च तद्वारणार्थमग्रह एवोपासनीयः, अन्तरङ्गन्यायेन प्रवृत्तिसैमानविषयत्वोपासनाया एवोचितत्वात् । न च सर्वत्रोभयवादिप्रसिद्धत्वादग्रहस्यैव कारणता ग्राह्या" विशिष्टज्ञानस्योभयवाद्यसिद्धत्वादिति वाच्यम् । न ह्युभयवादिसिद्धत्वं कारणत्वस्वीकारे प्रयोजकम्, किन्तु प्रमाण
१. P reads बाध्यते । २. P reads इदन्तास्पदस्य। ३. P reads न युक्तिमत्त्वात्। ४. Preads सत्यरजते । ५. P reads विशेष्यकत्वेऽतिप्रसङ्गनि०। ६ P reads चायम् । ७. P drops रजत-। ८. P reads व्यवहारे कारणत्वमस्तु । ९. P reads तथैवा.। १०. M. reads अतिप्रसस्योक्तत्वात् । ११. P drops प्रवृत्ति । १२. P reads न्याय्या। १३. P reads (उ)भयवादिसिद्धत्वात् इति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org